SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २६] [सुकृतकीर्तिकल्लोलिनी आयुर्वायुहतोर्मिवत् तरुणिमा घूर्मिभ्रमत्कम्बुवत् , कम्बुप्रस्रवदम्बुबुद्बुदकवल्लक्ष्मीलवोऽप्यन्वहम् । सद्यो बुद्बदबिन्दुभेदकणवत् तोषोऽपि दोषादिकक्रूरग्राहनिधौ कुकर्मजलधौ साक्षादिव प्रेक्ष्यते ॥१६१।। ईगपगुरूपदेशविशदस्वाभाविकस्वच्छधीस्तेजःपालनिजानुजानुचरितः श्रीवस्तुपालः कृती । शुभ्रादभ्रयशःप्रसूनसुभगश्रीवल्लिकन्दोपमां, धर्मस्थानपरम्परां रचयितुं धत्तेतमामुद्यमम् ॥१६२।। मज्जन्तीमवनीमवेक्ष्य दुरितमाम्भोधौ नवं भूधर10 प्राग्भारं रचयाञ्चकार यमसौ तीर्थेशचैत्यच्छलात् । तत्रैनःप्रतिदन्तिनाशसुभगः प्रेक्षामृदङ्गस्वनैगर्जन् विश्वजयी जयत्यनुदिनं धर्मद्विपो भूतले ॥१६३।। स्तम्भनपुर-रैवतगिरिदैवतचैत्ये प्रपञ्चिते येन । शत्रुञ्जयजिनपुरस्तस्तीर्थत्रयगतिफलं कुरुतः ॥१६४।। 15 शत्रुञ्जये भवपयोधितरार्थतीर्थं, येनेन्द्रमण्डपमखण्डपदं व्यधायि । तस्मादुर:करधृताद्भुतकुम्भशक्त्या, ती| तमोजलमयन्ति जना जिनाग्रे ॥१६५।। अस्मिन्नाभिभुवः प्रभोस्तनुभवश्चक्री स चक्रे पुरा, चैत्यं श्रीभरतः परे तु सगरक्ष्मापालमुख्या व्यधुः । देवो दाशरथिः पृथासुतपतिः प्राग्वाटभूर्जावडि, 20 शैलादित्यनृपः स वाग्भटमहामन्त्री च तस्योद्धृतिम् ॥१६६।। व्यातन्वन्नमरेन्द्रमण्डपमयं श्रीरैवत-स्तम्भनालङ्कारप्रभुनेमि-पार्श्वसहितं तीर्थेऽत्र शत्रुञ्जये । प्राग्वाटान्वयवाधिवर्धनविधुर्धात्रीशमन्त्रीशिताश्लाघ्यः सङ्घपतिः सतां विजयते श्रीवस्तुपालोऽधुना ॥१६७।। १. पद्यमिदं उदयप्रभीयवस्तुपालस्तुतौ एकविंशतितमपद्यतयाऽपि दृश्यते । २. यदसौ उदयप्रभीयवस्तुपालस्तुतौ ॥ ३. °यी विभाति भुवने श्रीधर्मगन्धद्विपः उदयप्रभीयवस्तुपालस्तुतौ ।। D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy