________________
१६]
[सुकृतकीर्तिकल्लोलिनी यद्दानप्रभवप्रभूतकनकप्राग्भारसारस्फुरन्नेपथ्यप्रचयप्रकम्पितरुचः प्रेक्ष्य द्विजानां प्रियाः । विन्ध्योल्लासभयाद् घटोद्भवमुनेर्योग्योऽप्युपेतो न यल्लोपामुद्रिकया तिरस्कृतिगिरा तस्मादुपालभ्यते ॥९४।। यस्मिन् दाननिदानकाञ्चनचयस्मेरत्करे कर्णिकोत्तालस्तालदलं न वाञ्छति जनः प्राणप्रियाप्रीतये । तस्मान्मूलपथेऽखिले फलगलन्मैरेयसिक्तोल्लसत्तृण्याभिस्तृणराज एष समभूत् तथ्याभिधानस्ततः ॥९५।। भ्रूभङ्गिप्रतिबिम्बतोरणदलं प्रौढप्रतापच्छलप्रोद्यद्दीपमदभ्रशुभ्रयशसा लिप्तं सुधास्पद्धिना । पद्मासद्म विभाति वीरधवलक्षोणीसखड्गं पुरो, युद्धक्रुद्धविरोधिरोधिपरिखाविस्फारधाराजलम् ॥१६॥ उपार्जि विभुताऽद्भुता वसुमती च नीता वशं, क्व सम्प्रति महामतौ धृतभरे भवेयं सुखी ? । अनेन गदितैरिति स्फुटसभाजनैर्भाजनैः,
श्रियामिति सभाजनैः शुचिविचारमूचे वचः ॥९७|| [वस्तुपालवंशवर्णनम्]
वंशोऽयं प्रथितोन्नतिः प्रभवति प्राग्वाट इत्याह्वया, पुण्यः पुण्यसुधारसेन शुचिना सोद्रेकसेकक्रियः । दिव्यामम्बरलम्बिनी सुचरितप्रासादामासादयन् , कीर्ति केतनकौतुकेन तनुते यः स्वधुनीस्पर्धिनीम् ॥९८॥ अच्छिद्रो यदि तत्कृतो गुरुगुणश्चेन्निर्जलस्तत् कुतस् , तेजस्वी यदि धीमतां हृदि गतश्चूडामणिश्चेत् कुतः ? ।
वंशेऽस्मिन्नजनिष्ट विष्टपचमत्कारीति कीर्तिप्रभा25
शुभ्रो मौक्तिकरत्नवन्नवनवश्रीमण्डितश्चण्डपः ॥१९॥
१. °जातिप्रियाः मुद्रिते ॥ २. °मुनिर्यो° कां० ३. °तापोच्छलत्प्रो° मुद्रिते ॥ ४. °तीवनं नो वशं कां० ॥
D:\sukarti.pm5\3rd proof