________________
१३८]
[वस्तुपालविरचिताम्बिकादेवीस्तोत्रम् (३)
अम्बिकास्तोत्रम् ॥ पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितत्रिजगतीदुरितापहाराम् ।
दौर्गत्यपातिजनताजनितावलम्बामम्बामहं महिमहैवती महेयम् ॥१॥ 5 यद्वक्त्रकुञ्जकुहरोद्गतसिंहनादोऽप्युन्मादिविघ्नकरियूथकधाममाथम् ।
कुष्माण्डि ! खण्डयतु दुर्विनयेन कण्ठः, कण्ठीरवः स तव भक्तिनतेषु भीतिम् ॥२॥ कुष्माण्डि ! मण्डनमभूत् तव पादपद्मयुग्मं यदीयहृदयावनिमण्डलस्य । पद्मालया नवनिवासविशेषलाभलुब्धा न धावति कुतोऽपि ततः परेण ॥३॥
दारिदुर्दमतमःशमनप्रदीपाः, सन्तानकाननघनाघनवारिधाराः । 10 दुःखोपतप्तजनबालमृणालदण्डाः, कुष्माण्डि ! पान्तु पदपद्मनखांशवस्ते ॥४॥
देवि ! प्रकाशयति सन्ततमेष कामं, वामेतरस्तव करश्चरणानतानाम् । कुर्वन् पुरः प्रगुणितां सहकारलुम्बिमम्बे ! विलम्बविकलस्य फलस्य लाभम् ॥५॥ हन्तुं जनस्य दुरितं त्वरिता त्वमेव, नित्यं त्वमेव जिनशासनरक्षणाय ।
देवि ! त्वमेव पुरुषोत्तममाननीया, कामं विभासि विभया सभया त्वमेव ॥६।। 15 तेषां मृगेश्वर-गर-ज्वर-मारि-वैरि-दुर्वारवारण-जल-ज्वलनोद्भवा भीः ।
उच्छृङ्खलं न खलु खेलति येषु धत्से, वात्सल्यपल्लवितमम्बकमम्बिके ! त्वम् ॥७॥ देवि ! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि । एतत् त्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसङ्घमनोमुदेऽस्तु ॥८॥
वरदे ! कल्पवल्लि ! त्वं, स्तुतिरूपे ! सरस्वति ! । 20 पादाग्रानुगतं भक्तं, लम्भयस्वातुलैः फलैः ॥९॥
स्तोत्रं श्रोतरसायनं श्रुतसरस्वानम्बिकायाः पुरश्चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः । प्रातः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सता
माधत्ते विभुतां च ताण्डवयति श्रेय:श्रियं पुष्यति ॥१०॥ 25 इति महामात्यश्रीवस्तुपालविनिर्मितमम्बिकास्तोत्रम् ॥
D:\sukarti.pm5\3rd proof