SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ एकादशं परिशिष्टम् ] [ १२९ पीयूषैः प्रणता हिमैः प्रणिहिता ताराभिराराधिता, गङ्गावीचिभिरचिता परिचिता दिग्दन्तिदन्तांशुभिः । कर्पूरैः परिशीलिता मलयजैरावर्जिता मण्डिता, डिण्डीरस्तबकैर्बकैरनुसृता मन्त्री ! कीर्तिस्तव ॥ ६५॥ प्रवर्तमानेऽत्र कवित्वसत्त्रे, सत्कृत्य सत्पात्रममात्यमेवम् । कृतार्थमात्मानमसावमंस्त, सौवस्तिको गुर्जरनिर्जराणाम् ॥६६॥ कुंमारपुत्रेण कुमारमातुः, काव्यं तदेतज्जगदेकदेव्याः । श्रुति - स्मृति-व्याकृति-यज्ञविद्याविशारदेन क्रियते स्म तेन ॥६७॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये कविप्रशस्तिवर्णनो नाम पञ्चदशः सर्गः ॥ १. कुमारनामकविदुषः पुत्रेण सोमेश्वरदेवेन ॥ २. कुमारः स्कन्धस्तस्य मातुर्दुर्गायाः || D:\sukarti.pm5\ 3rd proof 5 10
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy