SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ एकादशं परिशिष्टम् ] [ १२३ सन्तापशातिं जगतोऽपि सीमस्तन्नन्दनश्चन्दनवच्चकार । पीयूषहारी हरिणाङ्कितश्च, सत्यां बैभाजे द्विजराजतां यः ॥१५॥ यस्याशी:प्रतिपादितोदययुजा श्री भीमभूमीभुजा, क्षीरक्षालितशालितन्दु(ण्डु) लसितं साक्षात्कृतं तद्यशः । येनाशाक्रमणक्षमेण त इमे मूर्तिप्रभेदाः प्रभो - र्भस्मोद्धूलनमन्तरेण धवलाः सर्वेऽपि निर्वर्तिताः ॥१६॥ भित्त्वा भानुं तत्र ताते प्रयाते, पुत्र श्रीमानामशर्मा बभूव । कृत्वा सम्यक् सप्त संस्थाः क्रतूनां, क्रीता कम्रा येन सम्राडभिख्या ॥१७॥ सदा यदाशी:परिपूर्णकर्णः, श्रीकणनामा नृपतिः प्रकाण्डम् । वसुन्धरामण्डलमर्णवान्तं, वान्तारिनारीनयनाम्बु चक्रे ॥१८॥ दानानि तानि सदनानि च तानि शम्भोरम्भोजराजिरुचिराणि सरांसि तानि । येनामुना मुनिजनानुकृता कृतानि, वित्तैश्चलुक्यकुलसम्भवभूपदत्तैः ॥१९॥ धराधीशपुरोधसा निजनृपक्षोर्णी विलोक्याखिलां, चौलुक्याकुलितां तदत्ययकृते कृत्या किलोत्पादिता । मन्त्रैर्यस्य तपस्यतः प्रतिहता तत्रैव तं मान्त्रिकं, सा संहृत्य तडिल्लता तरुमिव क्षिप्रं प्रयाता क्वचित् ॥२०॥ तस्मात् कुमारः सुकुमारमूर्तिर्मूर्तस्तपोराशिमिवोज्जगाम । स्वराजराज्योदयदायिनी वागुवास शक्तेरिव यस्य वक्त्रे ॥२१॥ बद्धः सिन्धुर्वसुन्धरापतिरतिप्रौढप्रतापोऽपि यन्नीतः स्फीतबलोऽपि मालवपतिः कारां च दारान्वितः । १. अस्य भीमराजपुरोहितस्य सोमस्य जीवनसमयो भीमराजराज्यसमय एव ॥ २. विष्णुना, मृगेण च ।। ३. बभञ्जे ख ॥ ४. ब्राह्मण्यं, चन्द्रत्वं च ॥ ५. भीमराजराज्यम् - वि० सं० १०७८११२० ।। ६. पृथिव्यादयोऽष्टौ ॥ ७ शिवस्य ॥ ८. अस्य श्रीकर्णराजपुरोहितस्याऽऽमशर्मणः स्थितिसमयः श्रीकर्णराजराज्यसमय एव ।। ९. अग्निष्टोमाद्याः ।। १०. वाजपेययाजीति ।। ११. श्रीकर्णराजराज्यम्-वि० सं० १९२० - ११५० ।। १२. मालवाधिपतियशोवर्मणः पुरोहितेन स्वदेशभूमि गूर्जरराज श्रीसिद्धराजापरनामधेयजयसिंहदेवेन व्याकुलीकृतां वीक्ष्य तद्वधार्थमभिचारेण कृत्योत्पादिता । सा च आमशर्मणः पुरोधसः शान्तिमन्त्रैः प्रतिषिद्धा सती तमेव मालवाधीशपुरोहितं संहृत्य तिरोहितेति श्रूयते ॥ १३. शक्तिर्वसिष्ठपुत्रः ॥ १४. वोदत्तनामा ॥ १५. यशोवर्मनामा ॥ D:\sukarti.pm5 \ 3rd proof 5 10 15 20
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy