________________
5
९४]
[श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः येनोर्वीतलमुज्ज्वलं रचयताऽप्युत्ताम्यतामीर्घाया, सर्वेषामिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितं ॥४१॥ वसुदेवस्येव सुतः, श्रीकृष्णः कृष्णराजदेवोऽस्य ।
मात्राधिकप्रतापो, यशोद(*)यासंश्रितो जयति ॥४२॥ इतश्च- अन्वयेन विनयेन विद्यया, विक्रमेण सुकृतक्रमेण च ।
क्वापि कोऽपि न पुमानुपैति मे, वस्तुपालसदृशो दृशोः पथि ॥४३॥ दयिता ललितादेवी, तनयमवीतनयमाप सचिवेन्द्रात् । नाम्ना जयंत(*)सिंह, जयन्तमिन्द्रात् पुलोमपुत्रीव ॥४४।। यः शैशवे विनयवैरिणि बोधवन्ध्ये, धत्ते नयं च विनयं च गुणोदयं च । सोऽयं मनोभवपराभवजागरूकरूपो न कं मनसि चुम्बति जैत्रसिंहः ? ॥४५॥ श्रीवस्तुपालपुत्रः, कल्पायुरयं जयं(*)तसिंहोऽस्तु । कामादधिकं रूपं, निरूप्यते यस्य दानं च ॥४६।। से श्रीतेजःपालः, सचिवश्चिरकालमस्तु तेजस्वी । येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दन्ति ॥४७॥ यच्चाणक्या-ऽमरगुरु-मरुद्व्याधि-शुक्रादिकानां, प्रागुत्पादं व्यधित भुवने (*) मन्त्रिणां बुद्धिधाम्नां । चक्रेऽभ्यास: स खलु विधिना नूनमेनं विधातुं , तेजःपालः कथमितरथाऽऽधिक्यमापैष तेषु ? ॥४८॥ अस्ति स्वस्तिनिकेतनं तनभतां श्रीवस्तपालानजस्तेजःपाल इति स्थिति बलिकृतामुर्वीतले पालयन् । आत्मीयं ब(*)हुमन्यते न हि गुणग्रामं च कामन्दकि
श्चाणक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यम् ॥४९।। १. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागगत ३८सङ्ख्यगिरिनारसत्कशिलालेखे नवमं सोमेश्वरदेवकृतिरूपेण निर्दिष्टं वर्त्तते ॥ २. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागगत ३८ सङ्ख्यगिरिनारसत्क १०१सङ्ख्यार्बुदाचलप्रशस्त्योः क्रमशः षष्ठं प्रथमं च सोमेश्वरदेवकृतितया निर्दिष्टं वर्तते ।।
D:\sukarti.pm5\3rd proof