________________
८६]
[श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः (४३-६)
ॐ नमः श्रीसर्वज्ञाय ।। सम्मेतादिशिर:किरीटमणय: स्मेरस्मराहङ्कृतिध्वंसोल्लासितकीर्तयः शिवपुरप्राकारतारश्रियः । आनत्यश्रितसंविदादिविलसद्रत्नौघरत्नाकराः,
कल्याणवलिहेतवः प्रतिकलं ते सन्तु वस्तीर्थपाः ॥१॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुरवास्तव्यप्राग्वाटाकुलालङ्करण(*)श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ठ०
श्रीसोमतनुज ठ० श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसम्भूतस्य ठ० श्रीलुणिग 10 महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेज:पालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे
महं० श्रीललितादेवीकुक्षिसरोवरराजहंसायमाने महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्व स्तम्भ(*)तीर्थमुद्राव्यापारान् व्यापृण्वति सति सं० ७७ वर्षे श्रीशत्रुजयोज्जयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसङ्घाधिपत्येन चौलुक्य
कुलनभस्तलप्रकाशनैकमार्तण्डमहाराजाधिराजश्रीलवणप्रसाददेवसुतमहाराजश्रीवीरध15 वलदेवप्रीतिप्रतिपन्नराज्यसर्वेश्वर्येण श्री-शारदाप्रतिपन्नापत्येन महामा(*)त्यश्रीवस्तुपालेन तथा अनुजेन सं० ७६ वर्षपूर्वं गूर्जरमण्डले धवलक्ककप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वता महं० श्रीतेजःपालेन च श्रीशत्रुजया-ऽर्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुर-भृगुपुर-स्तम्भनकपुरस्तम्भतीर्थ-दर्भवती-धवलक्कक-प्रमुखनगरेषु तथा
अन्यसमस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजी(*)र्णोद्धाराश्च कारिताः ।। 20 तथा श्री-शारदाप्रतिपन्नपुत्रसचिवेश्वरवस्तुपालेन स्वधर्मचारिण्याः प्राग्वाटज्ञातीय ठ०
श्रीकान्हडपुत्र्याः ठ० राणुकुक्षिसम्भूताया मह० श्रीललितादेव्यास्तथा आत्मनः पुण्याभिवृद्धये इह स्वयंनिर्मापितश्रीशत्रुञ्जयमहातीर्थावतारश्रीमदादितीर्थंकरश्रीऋषभदेवस्तम्भनकपुरावतारश्रीपार्श्वनाथदेव-सत्यपुरा(*)वतारश्रीमहावीरदेवप्रशस्तिसहित
कश्मीरावतारश्रीसरस्वतीमूर्तिदेवकुलिकाचतुष्टय-जिनयुगल-अम्बा-ऽवलोकना-शाम्ब25 प्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टय-तुरगाधिरूढनिजपितामह महं०
श्रीसोम-स्वपितृ ठ० श्रीआशाराजमूर्तिद्वितय-चारुतोरणत्रय-श्रीनेमिनाथदेवआत्मीयपूर्वजा-ऽग्रजा-ऽनुज-पुत्रादिमूर्तिस(*)मन्वितमुखोद्घाटनकस्तम्भश्रीअष्टापदमहातीर्थप्रभृतिअनेककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषित-श्रीम
D:\sukarti.pm5\3rd proof