________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achar
Acharya Shri Kailassagarsuri Gyanmandir
विद्वान्
१० रे रे ! लक्षण-काव्य-नाटक-कथा चम्पू-समालोकने, क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्त्राम्बुजः!, भक्त्याऽऽराधय मंत्रराजमहसा-ऽऽनेनानिशं भारती येन त्वं कवितावितान-सविताऽद्वैतप्रबुद्धायसे ११ चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा, स्वाच्छंद्यराज्यप्रदा ऽनायासेन सुरासुरेश्वरगणै-रभ्यर्चिता भक्तितः देवी संस्तुतवैभवा मलयजा लेपाङ्ग-रङ्ग-द्युतिः, सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीवनी १२ स्तवनमेतदनेकगुणान्वितं, पठति यो भविकः प्रमनाः प्रगे; स सहसा मधुरैर्वचनामृतैर्नृपगणानयि रञ्जयति स्फुटम्१३
सरस्वती मंत्र ॐ ह्रीं वद वद वाग्वादिनि ! भगवति ! सरस्वति ! श्रुतदेवि ! मम जाड्यं हर हर श्रीभगवत्यैक ठः ठः ठः
स्वाहा ॐ ह्रीं श्रीं क्लीं वाग्वादिनि ! सरस्वति ! मम
जिह्वाग्रेवासं कुरु कुरु स्वाहा
१०९
For Private And Personal Use Only