SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सर्गः ] सञ्जीविनी सुधेन्दुटीकात्रयोपेतम् | ३ तस्याः, मार्ग, स्मृतिः, श्रुतेः, अर्थम्, इव, अन्वगच्छत् । वा० - कीर्तनीयया मनुप्येश्वरधर्मपत्न्या खुरन्यासपवित्रपांसुर्मार्गः स्मृत्यार्थः इवान्दगम्यत । सुधा० - भपांसुलानाम् = अस्वंरिणीनाम् । धुरि = अग्रे, कीर्त्तनीया = परिसङ्ख्यानीया, मनुष्येश्वरधर्मपत्नी = नरपतिपाणिगृहीती, दिलीपपत्नी सुदक्षिणेत्यर्थः । खुरन्यासपवित्रपांसुम् = शफ विक्षेपपूतरेणुं, तस्याः वनं गच्छन्त्याः, मन्दिन्याः, मार्ग= पन्थानं, स्मृतिः = धर्मसंहिता, मन्वादिस्मृतिरिति यावद् । श्रुतेः = वेदस्य, अर्थम् = अभिधेयम्, हब = यथा, अन्वगच्छद्र = अनुययौ । स०—खुराणां न्यासाः खुरन्यासास्तैः पवित्राः खुरन्यासपवित्राः खुरन्यासपवित्राः पांसवो यस्य स खुरन्यासपवित्र पांसुस्तम् खुरन्यासपवित्रपांशुम् । पांसवः पापानि - सन्त्यासामिति पांसुलाः, न पांसुला इत्यपांसुलास्तासामपांशुकानाम् । धर्मस्य पत्नी धर्मपत्नी, मनुष्येष्वीश्वरो मनुष्येश्वरः तस्य धर्मपत्नी मनुष्येश्वरधर्मपत्नी । को० - 'शफं क्लीबे खुरः पुमान्' इति । 'पवित्रः प्रयतः पूतः' इति । 'स्वरिणी घांसुला च स्यादु' इति । 'श्रुतिः स्त्री वेद आम्नायः' इति । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इति । 'स्मृतिस्तु धर्मसंहिता' इति सर्वत्राप्यमरः । ता० -- सकलपतिव्रताग्रगण्या दिलीपपत्नी सुदक्षिणा यथा मन्वादिस्मृतिर्वेदचाक्यस्यार्थमनुसरति तथैव नन्दिनीखुरक्षुण्णमार्गमनुसृतवतीति भावः । इन्दुः- पतिव्रताओं में सर्वप्रथम राजा दिलीप की पत्नी सुदक्षिणा ने नन्दिनी के खुरों के रखने से पवित्र धूलि वाले सार्ग का उसी भाँति अनुसरण किया जैसे सन्वादि स्मृतियाँ ब्रेद के अर्थों का अनुसरण करती हैं ॥ २ ॥ निव राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्मशोभिः । पयाघरीभूतचतुः समुद्रां जुगोप गारूपधरासवोम् ॥ ३ ॥ सञ्जी० - निवर्त्येति । दयालुः कारुणिकः । 'स्यादयालुः कारुणिकः' इत्यमरः । स्पृहिगृहि०' इत्यादिनाऽऽलुच्प्रत्ययः । यशोभिः सुरभिर्भनोश: । 'सुरभिः स्यान्मनोज्ञेऽपि' इति विश्वः । राजा तां दयितां निवर्त्य सौरभेयों कामधेनुसुतां नन्दिनीम् । धरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्वनाः । 'स्त्री स्तनान्दौ पयोधरौ' ह 'इत्यमरः । अपयोधराः पयोधराः सम्पद्यमानाः पयोधरोभूताः । अभूततद्भावे च्विः । 'कुगतिप्रादयः' इति समासः । पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम् । 'अनेकमन्य पदार्थे' इत्यनेकदार्थग्रहणसामर्थ्यात्त्रिपदो बहुब्रीहिः । गोरूपधरामुर्वीमिव जुगोप ररक्ष | भूरक्षणप्रयत्नेनेव ररक्षेति भावः । धेनुपक्षे - पयसा दुग्धेमाघरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ताम् । दुग्ध तिरस्कृतसागरामित्यर्थः । अ० - दयालुः, यशोभिः, सुरभिः, राजा, तां, दयितां निवर्त्य, सौरभेयीं, पीयो. धरीभूतचतुःसमुद्र, गोरूपधराम्, उर्वीम्, इत्र, जुगोप । वा० - दयालुना सुरभिणा राज्ञा सा सौरभेयी पयोधरीभूत चतुःसमुद्रा गोरूपधरोवींव जुगुपे ।
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy