________________
रघुवंशमहाकाव्यम्
[ प्रथम:कर्माद्यर्थत्वम् । कल्पयामास संपादयामास ॥
अ०-कल्पविद्, मुनिः, तपःसिद्धी, सत्याम्, अपि, नियमापेक्षया, अस्य, व. न्याम, एव, मंविधां, कल्पयामास ॥' वा०-कल्पविदा मुनिना तपःसिद्धी सस्यामपि नियमापेक्षयाऽस्य वन्यैव संविधा कल्पयाजके ॥
सुधा-कल्पविद्व्रतप्रयोगविज्ञः, मुनिः वाचंयमः, बशिष्ठ इति यावत् । तपः मिद्वी कच्छादिकर्मजन्याणिमाद्यैश्वर्य, सत्यामपि-विद्यमानायामपि, कृच्छ्चान्द्रायणादिव्रताचरणेन राजोचितभोजनसामग्रीसम्पादनसामध्ये सत्यपीत्यर्थः। नियमापेक्षया वतचर्यापेक्षया, तदाप्रभृत्येव नन्दिनीपरिचर्याऽऽत्मकवतचर्यापेक्षयेत्यर्थः। अस्य-राज्ञः, दिलीपस्येति भावः । वन्यांवनोद्भवाम् , एवअवधारणे, संविधां कुशादिशयनसामग्री, कल्पयामास-सम्पादयामास । अस्मिन् सर्गे प्रारम्भत एतावच्छलोकावधि सर्वत्रानुष्टुप्छन्द इव, तल्लक्षणं यथा-'श्लोके पष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुप्पादयोर्हस्वं सप्तमं दीर्घमन्ययोः' इति ॥
स०-नियमनं नियमः तस्यापेक्षा नियमापेक्षा तया नियमापेक्षया । सम्यक प्रकारेण विधीयतेऽनयेति संविधाम् ॥ __को०-सन् साधौ धीरशस्तयोः। मान्ये सत्ये विद्यमाने त्रिपु साध्व्युमयाः स्त्रियाम्' इति मेदिनी। 'तपः कृच्छ्रादि कर्म च' इत्यमरः । 'सिद्धिस्तु, मोक्षे निप्पत्तियोगयोः' इति हैमः।
ता०-व्रतप्रयोगकुशलो महपिर्वशिष्ठस्तपश्चर्योपात्तसिद्धया राजोचिताहारादिसामग्रीसम्पादनसामध्ये सत्यपि नन्दिनीपरिचर्याऽऽत्मकवतचर्यापेक्षयाऽस्य दिली. पस्य वनवासिजनसुलभकुशादिशयनसामग्रीमेव सम्पादयामास ॥ ____ इन्दुः-व्रत के प्रयोग के जाननेवाले मुनि 'वशिष्ठजी' ने तप की सिद्धि 'राजाओंके उपभोगयोग्य सामग्री सम्पादन करने का सामर्थ' रहते हुए भी नन्दिनी की सेवारूप व्रत का विचार कर के इन 'राजा दिलीप' के लिये वन में उत्पन्न हुए 'वनवासियों के उपभोग करने के योग्य' सामग्री का प्रवन्ध किया ॥ ९४ ॥
वशिष्टाज्ञया पर्णशालायां पत्न्या सह प्रसुप्तस्य दिलीपस्य ब्राह्ममुहूर्त निद्रात्यागमाह
निदिष्टां कुलपतिना स पर्णशाला
मध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय || ६५॥ सञ्जी०-निर्दिष्टमिति । स राजा कुलपतिना मुनिकुलेश्वरेण वशिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्ठाय । तस्यामधिष्ठानं कृरवेत्यर्थः । 'अधिशीस्याऽऽसां कर्म