SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ ६०॥ सञ्जी०-उपपन्नमिति । हे गुरो ? सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । सप्ताङ्गानि' इत्यमरः। शिवं कुशलमुपपन्नं ननु युक्तमेव । नन्ववधारणे । 'प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु' इत्यमरः। कथमित्यत्राह-यस्य ने दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम् मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम् । उभयत्रापि 'तत आगतः' इत्यण। 'टिड्ढाणञ्' इत्यादिना डीपआपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि । अत्राह कामन्दक:-'हुताशनो जलं व्याधिर्दुभिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुपं व्यसनं ततः ॥ आयुक्तक्षेभ्यश्चौ. रेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च नराणां पञ्चधा मतम् ॥' इति । अ०-'हे गुरो !' सप्तसु, अङ्गेषु, मे शिवम्, उपपन्नं, ननु यस्य, मे देवीनाम्, मानुषीणाम्, आपदां, त्वम्, प्रतिहर्ता, 'असि' । वा०-मे सप्तस्वङ्गेषु शिवमुपपन्नं ननु यस्य देवीनाम् मानुषीणामापदाम् त्वया प्रतिहा भूयते ॥ सुता-'हे गुरो !' सप्तसुस्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गवलेतिसप्तसङ्ख्याकेषु, अंगेषु = राज्याङ्गेषु, मे= मम, शिवं कल्याणम्, उपपन्न युक्तम्, अस्त्येवेति शेपः । ननु = इत्यवधारणे, यस्य भवदीयशिप्यस्य, मेन्मम 'दिलीपस्य' इत्यर्थः । दैवीनां = देवेभ्य आगतानां, दुर्भिक्षादीनामिति यावद् । मानुषीणाम् = मनुष्येभ्य आगतानां, चौरभयादीनामिति यावद् । आपदां= विपत्तीना, त्वम् = भवान् ‘एव' इति शेषः । प्रतिहत = निवारणकर्ता, असीति शेषः॥ स०-मनुष्येभ्य आगता मानुष्यः तासां मानुषीणाम् । को०-'श्वःश्रेयसं शिवम्भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'विपच्यां विपदापदौ' इत्यमरः। ता०-मम राज्ये स्वाम्यमात्यादिषु सप्तस्वंगेपु कुतो न कुशलं स्यात् ? यस्य मे देवीमानुषीप्रभृतिविपत्तिनिवारणाय प्रभुस्त्वम् मद्गुरुर्विद्यमानोऽस्यतः सर्वत्र कुशलमेव। - इन्दुः-'हे गुरो' ! मेरे 'राज्य के सात अङ्ग 'स्वामी, सन्त्री, मित्र, खजाना, राष्ट्र (पुर), किला, सेना', में कुशल क्यों न हो जिस के दैवी 'अग्नि, जल, रोग, दुर्भिक्ष, मरण' इन पाँच' और मानुपी 'ठग, चौर, शत्रु, राजा का कृपापात्र, राजा का लोभ' इन पाँच आपत्तियों के नाश करने वाले आप स्वयं विद्यमान हैं॥६०॥ तत्र मानुपापप्रतीकारमाह तव मन्त्रकृतो मन्त्रैदूरात्पर्शमितारिभिः। प्रत्यादिश्यन्त इव मे दृष्टलक्ष्याभदः शराः ।। ६१ ।। सञ्जी०-तवेति । दूरात्परोक्ष एव प्रशमितारिभिः। मन्त्रान् कृतवान्मन्त्रकृत् । 'सुकर्मपापमन्त्रपुण्येषु कृनः' इति क्विम्। तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy