SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् ।। यमाः, वेदशास्त्रार्थतत्त्वावगन्तार इति यावत् । सभार्याय सपत्नीकाय, गोप्ने = पालकाय, नयचक्षुषे = नीतिशास्त्रनेत्राय, अर्हते= पूजाहा, तस्मै राज्ञे दिलीपाय, अर्हणां पूजां, चक्रुः = विदधुः।। स०-अतिशयेन गुप्तानि गुप्ततमानि तानीन्द्रियाणि येषान्ते गुप्ततमेन्द्रियाः। को०-'सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते' इति । 'वाचंयमो सुनिः' इति चामरः। ता०-वशिष्ठाज्ञया सुनयो नीतिमते रक्षकाय सपत्नीकाय राज्ञे दिलीपाय पूजां विदधुः। इन्दुः-सभ्य जितेन्द्रिय मुनियों ने, रानी के सहित, रक्षा करने वाले, नीतिशास्त्ररूपी नेत्रवाले, 'अत एवं' पूज्य उन राजा दिलीप की पूजा की ॥ ५५॥ सायङ्कालीनक्रियान्तेऽरुन्धतीसहितस्य गुरोर्दर्शनमित्याह alth विधेः सायन्तनस्यान्त स ददर्श तपोनिधिम् । म अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ।। ६६ ।। सञ्जी०-विधेरिति । स राजा सायन्तनस्य सायम्भुवस्य । 'सायं चिरम्'० इत्यादिना ट्युत्प्रत्ययः। विधेजेपहोमाचनुष्ठानस्यान्तंऽवसानेऽरुन्धत्याऽन्वासितं पश्चादुपवेशनेनोपसेवितम् । कर्मणि क्तः । उपसर्गवशात्सकर्मकत्वम् 'अन्वात्यानाम्' इत्यादिवदुपपद्यते । तपोनिधिं वशिष्ठस् । स्वाहया स्वाहादेव्या । 'अथाग्नायी स्वाहा च हुतभुक्प्रिया' इत्यमरः। अन्वासितं हविर्भुजमिव ददर्श । (समित्पुष्पकुशाग्न्यम्बुमृदन्नाक्षतपाणिकः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेद् ।) इत्यनुष्ठा. नस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददशेत्युक्तम् । अन्वासनं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन । विधेरन्त इति कर्मणः । समाप्त्यभिधानाद् । ___ अ०--सः, सायन्तनस्य, विधेः, अन्ते, अरुन्धत्या, अन्वासितं तपोनिधि, स्वाहया, अन्वासितं, हविर्भुजम्, इव, ददर्श। वा०-तेन सायन्तनस्य विधेरन्तेऽरुन्धत्याऽन्वासितस्तपोनिधिः स्वाहयाऽन्वासितो हविर्भुगिव ददृशे । सुधा-सा राजा दिलीपः, सायन्तनस्य सन्ध्याकालीनस्य, विधेः जपहोमाद्यनुष्ठानस्य, अन्ते=अवसाने, समाप्तावित्यर्थः अरुन्धत्या = अरुन्धतीनाम्न्या स्वपल्या, अन्वासितम्-उपासितम्, पश्चादुपवेशनेनेति शेषः। तपोनिधि =धर्मशेवधि, वशिष्ठमिति यावद् । स्वाहयातदाख्ययाऽग्निपरन्या, 'अन्वासितं' हविर्भुजम् = अग्निम्, इव: यथा, ददर्शविलोकयामास ।। स०-नि निश्चयेन धीयतेऽस्मिन्निति निधिस्तपसां निधिस्तपोनिधिस्तं तपो. निधिम् । को०-'विधिविधाने दैवेऽपि' इत्यमरः । 'अन्तं स्वरूपे नाशेऽन्तो न स्त्री शेषे. ऽन्तिके त्रिषु' इति मेदिनी। 'तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च' इति
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy