SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सर्गः ] सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् | छतत्रत्यो हुतहवनीयद्द्रव्यगन्धयुक्तो धूम इत्याहअभ्युत्थिताग्निपिशुनैरतिथीनाश्र मोन्मुखान् । पुनानं पवनोद्भूतैर्धूमैराहुतिगन्धिभिः ।। ४३ ।। सञ्जी० - अभ्युत्थितेति । अभ्युत्थिताः प्रज्वलिताः । होमयोग्या इत्यर्थः । समिद्धेऽग्नावाहुतीर्जुहोति ) इति वचनात् । तेषामग्नीनां पिशुनैः सूचकैः, पवनोदूधूतैः । आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनस्तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं पवित्रीकुर्वाणम् ॥ कुलकम् ॥ - अ० – अभ्युत्थिताग्निपिशुनैः, पवनोद्धूतैः, आहुतिगन्धिभिः, धूमैः, आश्रमोन्मुखान्, अतिथीन्, पुनानम् ' आश्रमं प्रापत्' । वा० - अभ्युत्थिताग्निपिशुनैः पवनोद्धूतैराहुतिगन्धिभिर्धूमैराश्रमोन्मुखानतिथीन् पुनानः 'आश्रमः प्रापि' । = सुधा - अभ्युत्थिताग्निपिशुनैः प्रज्वलितवह्निसूचकैः, पवनोद्धूतैः वातोत्क्षिप्तैः, आहुतिगन्धिभिः = हवनीयद्रव्यगन्धवद्भिः, धूमैः = धूम्रः, आश्रमोन्मुखान् = वशिष्ठस्थानमभिलक्ष्यीकृत्यागन्तुमुत्सुकान्, अतिथीन् = अभ्यागतान् । पुनानम् = पवित्रीकुर्वाणम्, 'आश्रमं प्रापत्' । ४५ स॰—अङ्गन्तीत्यग्नयः अभ्युत्थिताश्च तेऽग्नयोऽभ्युत्थिताग्नयः तेषां पिशुना अभ्युस्थितान्निपिशुनाः तैरभ्युत्थिताग्निपिशुनैः आश्रम उन्मुखा आश्रमोन्मुखास्तानाश्रमोन्मुखान् । पुनातीति पवनः तेनोद्भूताः पवनोद्भूतास्तैः पवनोद्भूतैः । आहवनमाहुतिस्तस्या गन्ध आहुतिगन्धः सोऽस्त्येषामित्याहुतिगन्धिनः तैराहुतिगन्धिभिः । को० - 'पिशुनं कुङ्कुमेऽपि च । कपिवक्त्रे च काके ना सूचककरयोस्त्रिषु' इति मेदिनी । ' स्युरावेशिक आगन्तुरतिथिर्ना गृहागते' इत्यमरः । ' आश्रमो ब्रह्मचर्यादौ वानप्रस्थे मठे वने' इति मेदिनी । 'नभस्वद्वातपवनपवमानप्रभञ्जनाः' इत्यमरः । 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः' इति विश्वः । ता० - वशिष्ठादिमुनिकृत होमगन्धमिश्रितैः पवनोत्क्षिप्तैर्धूमैरतिथीन् पवित्रीकुर्वाणमाश्रमं प्रापद् । इति कुलकं समाप्तम् । इन्दुः - प्रज्वलित अग्नि को सूचित करने वाली ' तथा 'वायुसे फैले हुए आहुति गन्ध से मिले हुए धूएँ से आश्रम की ओर आने के लिए उन्मुख अतिथियों को पवित्र करने वाले 'आश्रम' में पहुँचे ॥ ५३ ॥ ༢༤༠༨ अथ प्रेशी आश्रमप्राप्त्यनन्तरं रथादवतरणमित्याह अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः . तामवारोहयत्पत्नीं रथादवततार च ॥ ५४ ॥ सञ्जी० - अथेति । अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिं, धुरं, वहन्तीति धुर्या युग्याः । 'धुरो यड्ढकौ' इति यत्प्रत्ययः । 'धूर्वहे धुर्यधौरेय धुरीणाः सधुर युग = घोसरशन कद्‌यसा 91 ,
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy