SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ३६ मार्गशाखिनां नामधेयानि पृच्छन्तौ । दुह्याच्–' इत्यादिना पृच्छतेर्द्विकर्मत्वम् । कुलकम् । __ अ०-हैयङ्गवीनम्, आदाय, उपस्थितान् , घोषवृद्धान् , वन्यानां, मार्गशाखिनां नामधेयानि, पृच्छन्तौ, 'तौ जग्मतुः' । वा०-हैयङ्गवीनमादायोपस्थितान् घोषवृद्धान् वन्यानां मार्गशाखिनां नामधेयानि पृच्छनयां 'ताभ्यां जग्मे । सुधा-हैयङ्गवीनं-ह्योगोदोहोद्भवं, सद्योघृतमिति यावद् । आदाय = गृहीत्वा 'राज्ञे निवेदयितुमि ति शेषः । उपस्थितान् = समीप आगतान् , घोषवृद्धान् = आभीरपल्लीस्थविरान् । वन्यानांकाननोत्पन्नानाम्, मार्गशाखिना=वर्त्मवृक्षाणां, नामधेयानि नामानि, पृच्छन्तौ = जिज्ञासमानौ, 'तौ जग्मतुः । इति कुलकं समाप्तम् । स०-घोषे वृद्धा घोषवृद्धास्तान् घोषवृद्धान् । शाखाः सन्त्येषामिति शाखिनः, मार्ग्यत इति मार्गः तत्र शाखिनो मार्गशाखिनः तेषां मार्गशाखिनाम् । को०-'आख्याह्वे अभिधानञ्च नामधेयञ्च नाम च' इत्यमरः। 'अटव्यरण्य विपिनं गहनं काननं वनम्' इत्यमरः । 'अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः । 'वृक्षो महीरुहः शाखी विटपी पादपस्तरुः' इत्यमरः। ता०-सुदक्षिणादिलीपौ स्वसविधे पूर्वदिनोद्भवं घृतमेवोपहारमादाय संमुपस्थितानाभीरपल्लीनिवासिन आभीरवृद्धान् किन्नामकोऽसौ मार्गप्ररूढस्तरुः किन्नामकश्च स इत्येवंरूपेण जिज्ञासां कुर्वाणौ जग्मतुः।। इन्दु-गाय के ताजा दूध का मक्खन लेकर उपस्थित हुये घोष (अहीरों के ग्राम) में (रहने वाले) वृद्धों से जंगली रास्ते के वृक्षों के नामों को पूछते हुये 'वे दोनों चले' ॥४५॥ तयोर्गच्छतोश्चित्राचन्द्रमसोरिव शोभाऽभूदित्याह काऽप्यभिख्या तयोरासाद् बजताः शुद्धवेषयोः हिनिमुक्तयोर्योगे चित्राचन्द्रमसारिव ।। ४६ ।। सञ्जी०–काऽपीति । व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोस्तयोः सुदक्षिणादिलीपयोश्चित्राचन्द्रमसोरिव योगे सति काऽप्यनिर्वाच्याऽभिख्या शोभाऽऽसीद् । 'अभिरुया नामशोभयोः' इत्यमरः । 'आतश्चोपसर्गे' इत्यङ्प्रत्ययः। चित्रा नक्षत्रविशेषः । शिशिरापगमे चंच्या चित्रापूर्णचन्द्रमसोरिवेत्यर्थः । ___ अ०-व्रजतोः, शुद्धवेषयोः, तयोः, हिमनिर्मुक्तयोः, चित्राचन्द्रमसोः, इव योगे, 'सति' कापि, अभिख्या, आसीत् । वा०-व्रजतोः शुद्धवेषयोस्तयोहिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव योगे 'सति' कयाऽप्यभिख्ययाऽभूयत । सुधा-व्रजतोः गच्छतोः, मार्ग इति शेषः । शुद्धवेषयोः निर्मलनेपथ्ययोः, तयोः सुदक्षिणादिलीपयोः, हिमनिर्मुक्तयोः तुषारत्यक्तयोः, चित्राचन्द्रमसोः=
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy