SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २८ रघुवंशमहाकाव्यम् [प्रथमःसुधा-तस्य दिलीपस्य, मगधवंशजा-मगधदेशीयनृपकुलोत्पन्ना, दाक्षिण्यरू ढेन=परच्छन्दानुवर्तनप्रसिद्धेन, नाना=नामधेयेन, अध्वरस्य यज्ञस्य, दक्षिणा =तदाख्या, पत्नी भार्या, इव-यथा, सुदक्षिणा, इति-सुदक्षिणेति नाम्ना प्रसिद्धा, 'पत्नी' आसीद् =बभूव, तस्य दिलीपस्य नामतुल्यगुणशालिनी सुदक्षिणानाम्नी भार्याऽऽसीदिति भावः। स०-दक्षिणस्य भावो दाक्षिण्यं तेन रूढं दाक्षिण्यरूढं तेन दाक्षिण्यरूढेन । मगधानां वंशो मगधवंशः तत्र जाता मगधवंशजा। __ को०-'वंशोऽन्ववायः सन्तानः' इत्यमरः। 'पत्नी पाणिगृहीती च द्वितीया सहधम्मिणी' इत्यमरः।। ता-परच्छन्दानुवर्त्तित्वगुणवाहुल्यात् तस्य दिलीपस्य मनोवृत्तानुसारिणी, अन्वर्थनाम्नी यज्ञस्य पत्नी दक्षिणेव सुदक्षिणेत्याख्या मगधवंशनन्दिनी महिप्यासीत् । इन्दुः-उस राजा दिलीप की मगधवंश में उत्पन्न हुई दूसरेके मनोऽनुकूल चलने के कारण यज्ञ की पत्नी दक्षिणाकी तरह सुदक्षिणा इस नाम से प्रसिद्ध पटरानी थी। तस्यानेकासु पत्नीषु सतीष्वपि प्रिया सुदक्षिणवेत्याह कलत्रवन्तमात्मानमवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाऽधिपः ।। ३२ ॥ सञ्जी०-कलत्रवन्तमिति । वसुधाऽधिपः, अवरोधेऽन्तःपुरवर्गे महति मनस्विन्या दृढचित्तया पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थः, तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने। 'कलनं श्रोणिभार्ययोः' इत्यमरः । वसुधाsधिप इत्यनेन वसुधया चेति गम्यते । अ०-वसुधाधिपः, अवरोधे, महति, अपि, मनस्विन्या, तदा लचम्या, चं आत्मानं, कलत्रवन्तं मेने। वा०-वसुधाऽधिपेनावरोधे महत्यपि मनस्विन्या तया लक्ष्म्या चात्मा कलत्रवान् मेने । सुधा-वसुधाऽधिपः = पृथ्वीपतिः, दिलीप इति भावः । अवरोधे = अन्तःपुरवर्गे महत्यपि = बाहुल्येन सत्यपि, मनस्विन्या=पतिचित्तानुवृत्त्यादिस्वधर्मे दृढचित्तया, तया= सुदक्षिणया, लचम्या=श्रिया, राज्यस्येति शेषः। च, आत्मानं स्वं, कलत्रवन्तम् =भार्यावन्तम्, मेने = अवगतवान् । स०-वसूनि दधातीति वसुधा तस्या अधिपो वसुधाऽधिपः । को०-'स्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् । शुद्धान्तश्चावरोधश्च' इत्यमरः। 'संपत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः । 'वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः । ____ ता०-तस्य दिलीपस्य बहुषु स्त्रीगणेषु सत्स्वपि स्वानुकूलाचरणतया स्ववशव. तितया च लक्ष्मीः सुदक्षिणा च द्वे एव प्रिये पल्यौ यथाऽर्थत आस्ताम् । इन्दुः-उस राजा दिलीपका रनिवास बहुत बड़ा होने पर भी (बहुत सी रानियां
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy