SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्यम् [प्रथम:___ स०--सम्पदो विनिमयः सम्पद्विनिमयस्तेन सम्पद्विनिमयेन ॥ को०--'यज्ञः सवोऽध्वरो यागः सप्ततन्तु खः क्रतुः' इत्यमरः। 'वृक्षादीनां फलं सस्यम्' इत्यमरः । 'इन्द्रो मरुत्वान्मघवा विदौजाः पाकशासनः' इत्यमरः । 'सुरलोको धौदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्' इत्यमरः। 'सम्पदि। संपत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः । 'जगती लोको, विष्टपं भुवनं जगद्' इत्यमरः। ता०--सम्पादितसख्याविव इन्द्रदिलीपी वृष्टियज्ञाभ्यां मर्त्यस्वर्गलोकौ मिथो ररक्षतुः। इन्दुः-उस राजा दिलीप ने यज्ञ करने के लिये पृथ्वी को 'षष्ठांशरूप' कर ग्रहण द्वारा दुहा, और इन्द्र ने धान्य की वृद्धि होने के लिये स्वर्ग को वृष्टिद्वारा दुहा । इस प्रकार से' दोनों (इन्द्र और दिलीप) ने परस्पर 'धन और वृष्टिरूप' अपनी २ सम्पत्ति बदलने से दोनों 'स्वर्ग और मयं लोक की रक्षा की ॥ २६ ॥ तस्य राज्ये तस्करभयं नासीदित्याह न किलानुययुस्तस्य रामानो रक्षितर्यशः । व्यावृत्ता यत्परस्वभ्यः अतौ तस्करता स्थिता ॥ २७ ॥ सञ्जी०-नेति । राजानोऽन्ये नृपा राक्षतुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशो नानुययुः किल नानुचक्रः खलु । कुतः यद्यस्मात्कारणात्तस्करता चौर्य परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता, अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः। अथवा (अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि) इति न्यायेन शब्दे स्थिता स्फुरिता न तु स्वरूपतोऽस्तीत्यर्थः। अ०-राजानः, रक्षितुः, तस्य, यशः, न, अनुययुः, किल, यत्, तस्करता, परस्वेभ्यः, व्यावृत्ता 'सती' श्रुतौ, स्थिता । वा०-'भन्यैः' राजभी रक्षितुस्तस्य यशो नानुयये किल, यत्, तस्फरतया परस्वेभ्यो व्यावृत्तया 'सत्या' श्रुतौ स्थितयाऽभावि । सुधा-राजानः= अन्ये नरपतयः, रक्षितः त्रातुः, 'भयेभ्यः' इति शेषः। तस्यराज्ञो दिलीपस्य, यशः कीर्ति, न= नहि, अनुययुः= अनुचक्रुः, किल= प्रसिद्धौ। यत् = यस्मात् कारणात्, तस्करता=चौर्यम्, परस्वेभ्यः= अन्यदीयधनेभ्यः, स्वविषयभूतेभ्य इति भावः । व्यावृत्तापराङ्मुखीभूता 'सती'। श्रुतौ श्रवणे, तस्करतेत्यर्थप्रतिपादके वाचकशब्द इति भावः। स्थिता=प्रवृत्ता, अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः । अथवा श्रुतौ= ध्वनौ 'रवमात्रे' स्थिता=अस्थात् , तस्करता केवलं श्रयत एव नहि परधनार्थ प्रवर्तते। स०-परेषां स्वानि परस्वानि तेभ्यः परस्वेभ्यः। को०-'यशः कीर्तिः समज्ञा च' इत्यमरः । 'परः श्रेष्ठारिदूरान्योत्तरे क्लीवं तु केवले' इति मेदिनी। 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्य
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy