SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्यम् [प्रथमः__ अ०--प्रजानां, विनयाधानाद्, रक्षणाद्, भरणाद्, अपि, सः, पिता, 'अभूत् तासाम, पितरः, तु, केवलं, जन्महेतवः 'अभूवन्' । वा०-प्रजानां विनयाधानाद् रक्ष णादरणादपि तेन पित्राऽभूयत, तासां पितृभिः केवलं जन्महेतुभिरभयत ॥ २४ ॥ __ सुधा--प्रजानां जनानां स्वशासनाधीनानामिति भावः । विनयाधानात् नम्र तादिगुणशिक्षाकरणात् सन्मार्गनयनादिति यावत् । रक्षणात्=पालनात्, चीरादिभ यहेतुभ्य इति शेषः । भरणात्-पोपणाद्, अन्नपानादिभिरिति शेषः । अपि समुच्चये, सा-दिलीपः, पिता-रक्षिता, जनको वा, आसीदिति शेषः। तासांप्रजानाम्, पितरःजनकाः, तु= किन्तु, केवलं जन्महेतवः = उत्पत्तिमात्रकारणानि, अभूवनिति शेषः ॥ २४॥ स-विशेषेण नयः विनयः, तस्याधानं विनयाधानं तस्माद् विनयाधानात। को-'तातस्तु जनकः पिता' इत्यमरः । 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः इत्यमरः । 'हेतुर्ना कारणं वीजम्' इत्यमरः । ता-दिलीपप्रजानां पितरस्तु केवलं जन्मदातार एवाभूवन्, किन्तु तासां विनयादिशिक्षको भयहेतुभ्यो रक्षकोऽन्नवस्त्रादिभिः पोषको दिलीप एवाभूत ॥ २४ ॥ ___ इन्दुः-नम्रता आदि की शिक्षा देने से, आपत्तियों से बचाने से और अन्नादिकों के द्वारा पोषण करने से, वे दिलीप ही प्रजाओं के पिता हुए, और उन प्रजाओं के पिता तो केवल जन्म देने ही में कारण हुए ॥ २४ ॥ तस्यार्थकामावपि धर्म एवास्तामित्याह स्थित्यै दण्डयतो दण्ड्यापारणेतः प्रसूतये । अध्यथकामौ तस्यास्तां धम एव मनीषिणः ।। २ ।। सञ्जी-स्थित्या इति । दण्डमर्हन्तीति दण्ड्याः 'दण्डादिभ्यो यः' इति यप्रत्ययः। (अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥) इति शास्त्रवचनात् । तान्दण्ड्यानेव स्थित्ये लोकप्रतिष्ठायै दण्डयतः शिक्षयतः । प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः। मनीषिणो विदुषः । दोष. ज्ञस्येति यावत्। 'विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो वुधः। धीरो मनीषी' इत्यमरः । तस्य दिलीपस्यार्थकामावपि धर्म एवास्तां जाती। अस्तेर्लङ । अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः । आह च गौतमः-'न पूर्वालमध्यन्दिना. पराल्लानफलान्कुर्याद् यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् । इति । __ अ०-दण्ड्यान्, 'एव' स्थित्यै, दण्डयतः, प्रसूतये, परिणेतुः, मनीषिणः, तस्य, अर्थकामो, अपि धर्मः, एव, आस्ताम् । वा०-स्थित्यै दण्ड्यान् दण्डयतः, प्रसूतये परिणेतुः, मनीषिणस्तस्यार्थकामाभ्यामपि धर्मेणैवाभूयत । सुधा-दण्ड्यान् दण्डयोग्यान्, अपराधिन इति यावत् एवेति शेषः। स्थित्यै
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy