SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १४ रघुवंशमहाकाव्यम् [प्रथमःरिक्तसारस्तेन सर्वातिरिकसारेण, सर्वेषां तेजांसि सर्वतेजांसि तान्यभिभवितुं शीलमस्य स सर्वतेजोऽभिभावी तेन सर्वतेजोऽभिभाविना। . __को०--'अतिरिक्तः समधिकः' इत्यमरः । 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि' इत्यमरः । 'उच्चप्रांशून्नतोदग्रोच्छ्तिास्तुङ्गे' इत्यमरः । 'सर्वसहा वसुमती वसुधो: वसुन्धरा' इत्यमरः । 'मेरुः सुमेरुहेमाद्री रत्नसानुः सुरालयः' इत्यमरः । ता०-यथा सकलपर्वतापेक्षयाऽधिकसारः स्वतेजसाऽन्याभिभवकर्ता सकलपर्वतापेक्षयोन्नतो मेरुः पर्वतो भूमिमाक्रम्य स्थितस्तथव दिलीपोऽपीति । इन्दुः-सबसे अधिक बलवान् (मेरुपक्ष में सबसे अधिक स्थिर), सभी लोगों के तेज को अपने प्रभावसे ( मेरुपक्षमें कान्तिमे) नीचा दिखलानेवाले, सब से अधिक ऊँचे शरीर से मेरु पर्वत के समान पृथ्वी को दवाकर बैठे हुए ॥ १४ ॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः। आगमैः सदृशारम्भ आरम्भसहशोदयः ।। १५ ॥ सञ्जी०-आकारेति । आकारेण मूर्त्या सदृशी प्रजा यस्य सः । प्रज्ञया सहशागमः = प्रज्ञाऽनुरूपशास्त्रपरिश्रमः । आगमः सदृश आरम्भः कर्म यस्य स तथोक्तः । आरभ्यत इत्यारम्भः कर्म । तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः। अ०-आकारसदृशप्रज्ञः, प्रज्ञया, सदृशागमः, आगमः, सदृशारम्भः' आरम्भसदृशोदयः, ‘स दिलीप आसीदिति' शेपः । वा०-आकारसदृशप्रज्ञेन प्रज्ञया सहशा. गमेनागमैः सदृशारम्भसदृशोदयेन 'दिलीपेनाभावि'। सुधा-आकारसहशप्रज्ञः=आकृतितुल्यबुद्धिः, प्रज्ञया मत्या, सदृशागमा अनुरूपशास्त्रः, तस्य दिलीपस्य यादृशी तीचणा मतिरासीत् तादृशः शास्त्रेषु परिश्रमाऽ. पीति भावः। आगमैः शास्त्रैः, राजनीत्यादिभिरिति यावत ।,सदृशारम्भ समानोद्धातः, नीतिशास्त्राद्यनुकूलसकलकार्यारम्भ इति भावः। आरम्भसदृशोदयः = उपक्रमानुरूपफलसिद्धिः,प्रारब्धकर्मतुल्यफलसिद्धिरिति भावः। स दिलीप मासीदिति शेषः। स०-आकारेण सदृशी आकारसहशी आकारसहशी प्रज्ञा यस्यासौ आकारसदृशप्रज्ञः आरम्भेण सहशः आरम्भसदृशः, आरम्भसदृश उदयो यस्य स आरम्भसदृशोदयः। ___ को०-'आकाराविगिताकृती' इत्यमरः । 'वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सहग्' इत्यमरः । 'वुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । 'प्रक्रमः स्यादुपक्रमः । स्यादभ्यादानमुद्धात आरम्भ' इत्यमरः। ता०-तस्य राज्ञो दिलीपस्य यथाऽऽकारोत्युन्नतस्तथा बुद्धिरपि महती, यथा च बुद्धिस्तथा शास्त्रेषु परिश्रमः, यथा शास्त्रानुसारिणी क्रिया तथा क्रियाऽनुरूपा फलसिद्धिरासीत् । इन्दुः-आकार के सदृश बुद्धिवाले बुद्धि के सदृश शास्त्र का अभ्यास करनेवाले
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy