SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | नोज्ञादिभ्यश्च' इति वुन्प्रत्ययः। 'वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि' इति विश्वः । 'सङ्घातार्थेऽत्र वृद्धाच्च' इति वक्तव्यात्सामूहिको वुञ्। तस्मिन्वार्द्धके वयसि मुनीनां वृत्तिरिव वृत्तिर्येषां तेषाम् । एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन । 'योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु' इत्यमरः। तनुं देहं त्यजन्तीति तनुत्यजां देहत्यागिनाम् । 'कायो देहः क्लीवपुंसोः स्त्रियां मूर्तिस्तनुः स्तनूः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते' इति क्विप्। एतेन भिच्वाश्रमो विवक्षितः॥ ___अ०-शैशवे, अभ्यस्तविद्यानां, यौवने, विषयैषिणाम्, वार्द्धके, मुनिवृत्तिनाम्, अन्ते, योगेन, तनुत्यजाम् ॥ सुधा-शैशवे = बाल्ये वयसि, अभ्यस्तविद्यानां = पठितशास्त्राणां, यौवने = तारुण्ये वयसि, विषयैषिणां=भोगकाङ्क्षिणाम, वार्द्धके = जरायां वयसि, मुनिवृत्तीनाम् = ऋषितुल्याचरणानाम्, अन्ते = तनुत्यागसमये, योगेन = चित्तवृत्तिनिरोधेन, तनुत्यजां= शरीरत्यागिनाम् ॥ स०-अभ्यस्ता विद्या यैस्तेऽभ्यस्तविद्यास्तेषाम् अभ्यस्तविद्यानाम् । मन्यन्ते वेदशास्त्रार्थतत्त्वानीति मुनयः तेषां वृत्तिरिव वृत्तिर्येषान्ते मुनिवृत्तयस्तेषां मुनिवृत्तीनाम् ॥ * को-'विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि' इत्यमरः ।'वाचंयमो मुनिः' इत्यमरः। 'आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने' इत्यमरः । 'अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः' इति, 'अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्' इति चामरः। ता-बाल्ये ब्रह्मचर्याश्रमिणां, यौवने गृहस्थाश्रमिणां, वार्द्धकं वानप्रस्थाश्रमिणां, शरीरत्यागसमये भिवाश्रमिणाम् ।। इन्दुः-बालकपन में विद्या सीखनेवाले,युवावस्था में भोग की अभिलाषा रखने वाले, बुढ़ापे में मुनियों की तरह जीविका रखनेवाले, अन्त में (शरीर त्याग करने के समय) योग से (चित्तवृत्तिके निरोध से) शरीर त्याग करनेवाले ॥ ८ ॥ रघणामन्वय वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ।। ६॥ सञ्जी०-रघूणामिति । सोऽहं लब्धप्रवेशः। तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन् । तेषां रघूणां गुणैस्तद्गुणैः। आजन्मशुद्धयादिभिः कर्तृभिः कर्णं मम श्रोत्रमागत्य चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम् । युवादित्वात्कर्मण्यण । "क्रियाऽर्थोपपदस्य च कर्मणि स्थानिनः' इत्यनेन चतुर्थी। प्रचोदितः प्रेरितः सन् । रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये ॥ कुलकम् ॥ . अ०-'सः, अहं' तनुवाग्विभवः, अपि तद्गुणैः कर्णम्, आगत्य, चापलाय, प्रचोदितः, सन्, रघूणाम्, अन्वयं वचये ॥ वा०-तेन मया तनुवाग्विभवेनाऽपि तद्गुणैः कर्णमागत्य चापलाय प्रचोदितेन सता, आजन्मशुद्धानामाफलोदयकर्मणा
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy