SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्यम् [द्वितीय अमु पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमुकुम्भस्तननिःमृतानां स्कन्दस्य मातुः पयसां रसज्ञः ।। ३६ । स०-अमुमिति। 'पुरोऽग्रतोऽमं देवदारु पश्यसि' इति काकुः । असौ देव दारुः । वृषभो ध्वजो यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः । अभूततद्भावे विः । यो देवदारुः स्कन्दस्य मातुर्गोर्या हेम्नः कुम्भ एव स्तनस्तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः, स्कन्दपक्षे-हेमकुम्भ इव स्तन इति विग्रहः । पयसां क्षीरा णाम् । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः । स्कन्दसमानप्रेमास्पदमिति भावः। __ अ०-पुरः, अमं देवदारु, पश्यसि, असो, वृषभध्वजेन, पुत्रीकृतः, यः, स्कन्दस्य मातुः, हेमकुम्भस्तननिःसृतानां पयसां, रसज्ञः 'अस्ति' । वा०-असौ देवदारु स्त्वया दृश्यते, अमु वृषभध्वजः पुत्रीकृतवान् , येन रसज्ञेन भूयते।। सुधा-पुर:= अग्रे, अमुम् = एतं, देवदारु= पारिभद्रं, पश्यसि = आलोकसें, असौ एषः, देवदारुः । वृषभध्वजेन = रुद्रेण, पुत्रीकृतः पुत्रतयाऽङ्गीकृतः । यः= देवदारुतहा, स्कन्दस्य = षडाननस्य, मातुः = जनन्याः, हेमकुम्भस्तननिःसृतानां: स्वर्णघटकुचनिर्गतानां, देवदारुपक्षे-पयसाम् अम्बूनां, स्कन्दपक्षे-पयसां= क्षीराणां, रसज्ञा=स्वादविद् , अस्तीति शेषः। स०-अपुत्रः पुत्रः कृत इति पुत्रीकृतः, वृषभो ध्वजश्चिह्नमस्येति वृषभध्वजस्तन वृषभध्वजेन । हेम्नः कुम्भो हेमकुम्भः, देवदारुपक्ष-हेमकुम्भ एव स्तनः, स्कन्दप-हेमकुम्भौ इव स्तनौ हेमकुम्भस्तनौ, तस्मानिःसृतानि हेमकुम्भस्तननिःसंतीनि तेषां तथोक्तानाम् । रस जानातीति रसज्ञः। * कोशः-'स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम्' इत्यमरः । 'रसो गन्धरसे स्वादे तितादौ विषरागयोः।' इति विश्वः । ता. हे राजन् ! असौ देवदारुः पार्वत्या स्वपयसा सेचितोऽस्मादेष पार्वतीशिवयोः स्कन्दतुल्यप्रेमभाजनमस्ति । ___ इन्दुः-हे राजन् ! तुम जो आगे स्थित इस देवदारु के वृक्षको देख रहे हो इसे शङ्करजी ने पुत्रभाव से माना है और जो कार्तिकेय की मां पार्वती जी के सोने के घटरूपी स्तनों से निकले हुए दूधरूपी जल के स्वाद का जाननेवाला है, स्कन्दपक्ष में सोने के घड़े के समान स्तनों से निकले हुए दूध के स्वाद का जाननेवाला है॥३६॥ कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य । अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुराचैः ॥ ३७॥ सजी०-कण्डूयेति । कदाचित्कटं कपोलं कण्डूयमानेन घर्षयता। 'कण्ड्वा . दिभ्यो यक्' इति यक, ततः शानच । वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता । अथादेस्तनया गौरी, असुरास्वैरालीढं क्षतम् । सेनां नयतीति सेनानीः स्कन्दः । 'पार्वती
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy