SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुघेन्दुटीकात्रयोपेतम् । सुधा-पल्वलेभ्यः उत्तीर्णानि पल्वलोत्तीर्णानि वराहाणां यूथानि वराहयूथानि पक्वलोत्तीर्णानि वराहयूथानि येषु तानि पत्वलोत्तीर्णवराहयूथानि तानि पूर्वोक्तानि । आवासस्य वृक्षा आवासवृक्षाः, आवासवृक्षाणामुन्मुखा आवासवृक्षोन्मुखाः, आवासवृक्षोन्मुखा बर्हिणाः सन्ति येषु तान्यावासवृक्षोन्मुखबर्हिणानि तानि पूर्वोकानि । मृगैरध्यासिता मृगाध्यासिताः; मृगाध्यासिताः शाहलाः सन्ति येषु तानि मृगाध्यासितशाद्वलानि तानि पूर्वोक्तानि । अश्यामानि श्यामानि भवन्तीति श्यामायन्ते, श्यामायन्त इति श्यामायमानानि तानि पूर्वोक्तानि । ___ कोशः–'वेशन्तः पल्वलं चाल्पसरः' इति । 'वराहः सूकरो घृष्टिः' इति । 'मयूरो बर्हिणो वहीं नीलकण्ठो भुजङ्गभुक्।' इति चामरः । ___ ता.- स राजा दिलीपः स्वल्पजलाशयेभ्यो विनिर्गतानां सूकरयूथानां, निजनिजनिवासार्थवृक्षान् प्रति गन्तुमुत्सुकानां मयूराणां मृगैरधिश्रितः शष्पहरितानां वनप्रदेशानां च श्यामतया सर्वत्र कृष्णवर्णानि विलोकयन् वसिष्ठाश्रमं प्रति जगाम । इन्दुः-वह राजा दिलीप छोटे छोटे तालाबों से निकले हुए बनैले सूअरों के झुण्डवाले, अपने अपने आवासयोग्य वृक्षों की तरफ 'जाने के लिए' उन्मुख मयूरों वाले तथा हरिण जिन पर बैठे हुए हैं ऐसे घासों से हरे प्रदेशवाले 'अत एव सर्वत्र' श्याम ही श्याम वनों को देखते हुए जाने लगे ॥ १७ ॥ आपीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद्वपुषो नरेन्द्रः। उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ १८ ॥ सजी०-आपीनेति । गृष्टिः सकृत्प्रसूता गौः। 'गृष्टिः सकृत्प्रसूता गौः' इति हलायुधः। नरेन्द्रश्न । उभौ यथाक्रमम् । आपीनमूधः। “ऊधस्तु क्लीबमापीनम्' इत्यमरः। आपीनस्य भारोद्वहने प्रयत्नात् प्रयासाद् वपुषो गुरुत्वादाधिक्याच । अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम् 'ऋक्पूरब्धूःपयामानक्षे' इत्यनेन समासान्तोऽप्रत्ययः। अलञ्चक्रतुभूषितवन्तौ । ___अ०-गृष्टिः, नरेन्द्रः, (च), उभौ, आपीनभारोद्वहनप्रयत्नाद्, वपुषः, गुरुत्वाद् (च), अञ्चिताभ्यां,गताभ्यां तपोवनावृत्तिपथम, अलञ्चक्रतुः। वा०-गृष्टया नरेन्द्रेण चोभाभ्यां तपोवनावृत्तिपथोऽलञ्चके। ___ सुधा-गृष्टिः सकृत्प्रसूता नन्दिनी, नरेन्द्रः = राजा दिलीपः, चेति शेषः । उभौत्र नन्दिनीदिलीपौ, यथाक्रममिति शेषः। आपीनभारोद्वहनप्रयत्नात् ऊधोभारधारणप्रयासाद्, वपुषा देहस्य, गुरुत्वाद्-दुर्भरत्वात् , चेति शेषः। अञ्चिताभ्यां पूजिताभ्यां, गताभ्यां गमनाभ्यां, तपोवनावृत्तिपथम् = तपोयोग्यविपिनावर्त्तमार्गम्अलचक्रतुः शोभितवन्तौ। समा०-आपीनस्य भार आपीनभारः, आपीनभारस्योद्वहनमापीनभारोदहनम् २ रघु० महा०
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy