SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ कादम्बरी पक्षसन्ततिम् उद्वहन्, उपारूढकम्पतया सन्तापकारिणीमङ्गलग्नां जरामिव विधन्वन्, अकठोरशेफालिकाकुसुम-नाल-पिञ्जरेण कलममञ्जरी-दलन-मसृणित-क्षीणोपान्त्यलेखेन स्फुटिताग्रकोटिना चञ्चपुटेन, परनीडपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय वृक्षमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो माझमदात् । प्रतिदिवसमात्मना च मदुपभक्तशेषम अकरोदशनम् । एकदा तु प्रभातसन्ध्यारागलोहिते गगनतले, कमलिनी-मधुरक्त-पक्षसम्पुटे वृद्धहंस इव मन्दाकिनीपुलिनादपर-जलनिधि-तटमवतरति चन्द्रमसि, परिणत-रङ्क-रोम-पाण्डुनि व्रजति योऽसदेशः ( स्कन्धप्रदेश: ) तस्मिन् शिथिलाम् (श्लथाम् )। अपगतोत्पतनसंस्काराम् = अपगतः ( विगतः, वार्धक्येनेति भावः ) उत्पतनस्य ( उड्डयनस्य ) संस्कार: ( वेगः ) यस्यां, तां = तादृशीम् पक्षसन्तति = पत्रसमुहम्, उद्वहन = धारयन् । उपारूढेति । उपारूढकम्पतया = उपारूढः ( प्राप्तः ) कम्पः ( वेपथुः) यस्य सः, तस्य मावस्तत्ता, तया हेतुना । सन्तापकारिणी = पीडाविधायिनीम्, अङ्गलग्नां = देहाऽवयवसम्बद्धां, जराम् = वृद्धाऽवस्थाम् इव, पक्षसन्तति, विधुन्वन् = कम्पयन्, निवारणाऽर्थमिति शेषः । उत्प्रेक्षाऽलङ्कारः । अकठोरेत्यादिः = अकठोरम् ( अकठिनम्, कोमलमिति भावः ), यत् शेफालिकाकुसुमं (निर्गुण्डीपुष्पम् ) तस्य नाल: ( दण्डः ) स इव पिञ्जर:=पिङ्गलवर्णः, तेन । कलमञ्जरीत्यादिः = कलमस्य ( शालिविशेषरय ) या मञ्जरी (वल्लरी) तस्या दलनं (विदारणम् ) तेन मसृणिता (स्निग्धीकृता ) क्षीणा ( प्राहक्षया ) उपान्त्यलेखा (प्रान्तराजि: ) यस्य तेन । स्फुटिताऽग्रकोटिना = स्फुटिता ( विशीर्णां ) अग्रकोटि: ( अग्र्यनिशितमागः ) यस्य, तेन । तादृशेन चञ्चपुटेन । परनीडपतिताभ्यः = परेषाम् ( अन्येषाम् ) यानि नीडानि ( कुलाया: ) तेभ्यः पतिताम्यः ( स्रस्ताभ्यः ) अशक्तिवशादिति भावः । शालिवल्लरीभ्यः = धान्यविशेषमञ्जरीम्यः, तण्डुलकणान् = अन्नविशेषलेशान्, आदाय आदाय = वारं वारं गृहीत्वा । वृक्षमूलनिपतितानि =तरुमूलविस्रस्तानि, शुककुलाऽवदलितानिशुकानां ( कीराणाम् ) कुलानि ( सजातीयानि ),तैः, अवदलितानि ( खण्डितानि )। फलशकलानिसस्यम्खण्डानि, च, ममाहृत्य = अवचित्य, परिभ्रमितुं = परिभ्रमणं कर्तुम्, अशक्तः = असमर्थः सन्, मह्यं = तनूजाय, अदात् = दत्तवान्, "डुदाञ् दाने" इति धातोर्लुङ् “गातिस्थाघुपाभूभ्य: सिचः परस्मैपदेषु" इति सिचो लुक । एवं प्रतिदिवसं = प्रत्यहम्, आत्मना=स्वयं, च । मदुपभुक्तशेष = मदुपभुक्तात् ( मद्भक्षितात् ) शेषम् ( अवशिष्टम् ), अशनं = भक्षणम्, अकरोत् = कृतवान् । एकदेति । एकदा = एकस्मिन् समये, “मृगयाकोलाहलध्वनिरुदचरत्" इत्यन्वयः । प्रभातसन्ध्यारागलााहत = प्रभातस्य ( प्रातःकालस्य ) या सन्ध्या ( सन्धिवेला ) तस्या यो रागः ( लोहित्यम् ) तेन लोहिते ( रक्तवर्णे), गगनतले = आकाशतले. कमलिनीमधुरक्तपक्षपुटे = कमलिन्याः (पधिन्याः) मधुः ( रस: ) तेन रक्तम् ( अरुणवर्णम् ) पक्षपुटं ( छदसम्पुटम् ) यस्य, तस्मिन्, वृद्धहंस अवशिष्ट जीण पंखसमूहमे जर्जर और शिथिल झुके हुए कन्धेमें शिथिल, उड़नेके वेगमे रहित पंखोंको धारण करते हुए कम्पयुक्त होनेमे मानों सन्ताप करने वाला अङ्गोंमें लग्न बुढ़ापेको समान पक्षपङ्क्ति को कम्पित करते हुए कोमल निर्गुण्डी पुष्पके नालक समान पीले, शालिधान्यकी मञ्जरीके विदारणसे स्निग्ध और क्षीण प्रान्तपक्तिवाले टी हुई नोकवाले चन्चुपुटमे अन्य घोसलोंसे गिरी हुई धान्य विशेषकी मञ्जरियोंसे चावलके दानोंको ले, लेकर पंड़के नीचे गिरे हुए शुकसमूहसे खण्डित फलोंके टुकड़ोंको इकट्ठा कर चलने में असमर्थ होकर मुझे देते थे । प्रतिदिन स्वयम् भी मेरे खाकर बचे हुए अंशसे भोजन करते थे। एकवार प्रातः कालकी सन्ध्याकी लालिमाम लाल आकाशमें कमलिनीके रसमे लाल पलोंवाले वृद्ध हंसके समान चन्द्रमाके आकाशगङ्गाके रेतीले किनारेसे पश्चिम समुद्रके तटपर उतरनेपर वृद्ध रङकु (मृगविशेष ) के
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy