SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६६ कादम्बरी भगवतो रामस्य त्रिभुवन-विवर-व्यापिनश्वापघोषस्य स्मरन्तो न गृह्णन्ति शष्प-कवलमजस्रमश्रुजल-लुलित-दृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरित-विषाणकोटयो जानकीसंवद्धिता जीर्णमृगाः । यस्मिन्ननवरत-मगया-निहत-शेष-वनहरिण-प्रोत्साहित इव कृतसीताविप्रलम्भः कनकमृगो राघवमतिदूरं जहार। यत्र मैथिलीवियोगदुःखदुःखितो रावण-विनाश-सूचको चन्द्रसूर्याविव कबन्धग्रस्तो समं रामलक्ष्मणो त्रिभुवनमयं महच्चक्रतुः । अत्यायतश्च यस्मिन् ( युक्तानि ) निर्गतानि (निःसृतानि ) पलाशानि ( पत्त्राणि ) यस्मिस्तत् इव, नवकिसलयं = नवानि (मूतनानि ) किसलयानि (पल्लवानि ) यस्मिस्तत् । तादृशम् अरण्यं = विपिनम्, आमाति = संशोभते । अयोत्प्रेक्षाऽलङ्कारः । अधुनाऽपीति । अधुनाऽपि = इदानीमपि, यत्र = आश्रमपदे, जलधरसमये - जलधरस्य ( मेघस्य ) समये ( काले ) वर्षर्ताविति भावः । गम्भीरं = गभीरम्, अभिनवजलधरनिवहनिनादम् = अभिनवा: ( नवीनाः ) ये जलधराः ( मेघाः ), तेषां निवहः (समूहः ) तस्य निनादं (गर्जनम् ) आकर्ण्य = श्रुत्वा भगवतः = ऐश्वर्यसम्पन्नस्य, रामस्य = रामचन्द्रस्य, त्रिभुवनविवरव्यापिनः = त्रयाणां भुवनानां समाहारस्त्रिभुवनं (त्रैलोक्यम् ), "तद्धिताऽर्थोत्तरपदसमाहारे च" इति समासस्तस्य "संख्यापूर्वोद्विगु: "इति द्विगुसंज्ञा, “स नपुंसकम्" इति तस्य नपुंसकत्वम् । त्रिभुवनस्य ( त्रैलोक्यस्य ) विवराणि (छिद्राणि ) तानि व्याप्नोतीति तच्छीलस्तस्य, त्रैलोक्यच्छिद्रव्यापनशीलस्येति भावः । तादृशस्य चापघोषस्य = धनुःशब्दस्य, "स्मरन्त' इत्यस्य योगे "अधीगर्थदयेशां कर्मणि" इति कर्मणि षष्ठी। स्मरन्तः = आध्यायन्त: अजस्रं = निरन्तरम्, अश्रुजललुलित दृष्टयः = अश्रुजलेन ( अस्रसलिलेन ) लुलिताः (व्याकुलिताः ) दृश्यः ( नेत्राणि ) येषां ते । अत: दश = दशसंख्यकाः । दिशः = काष्ठाः, शून्याः = सीतारामलक्ष्मणरहिताः, वोक्ष्य = दृष्ट्वा, जराजर्जरितबिषाणकोटयः = जरसा ( वार्धक्येन ) जर्जरिताः (विशीर्णाः ) विषाणानां (शृङ्गाणाम् ) कोटयः ( अग्रभागाः ) येषां ते । तादृशा जानकीसंवद्धिताः= जानक्या (सीतया ) संवद्धिता: ( बालतृणसलिलप्रदानेन वृद्धि प्रापिताः ) जीणमृगाः = वृद्धहरिणाः, शष्पकवलं = बालतृणग्रासम्, न गृह्णन्ति =न आददते, सीतारामादीनां शोकेनेति भावः । अत्र रामचापघोषस्मृतेः स्मरणाऽलङ्कारः, शष्पकवलग्रहणस्य सम्बन्धेऽपि तदसम्बन्धवर्णनादतिशयोक्त्यलङ्कारस्तथा च द्वयोरङ्गाङ्गिमावेन सङ्कराऽलङ्कारः । यस्मिन्निति। यस्मिन् = वने । अनवरतेत्यादिः = अनवरतं (निरन्तरं यथा तथा ) या मृगया (आखेटक्रीडा ), तस्यां निहताः (व्यापादिताः ) तेभ्य: शेषः ( अवशिष्टाः ) ये वनहरिणा: (अरण्यमृगाः ) तै: प्रोत्साहित: ( उत्साहं प्रापित ) इव, कृतसीताविप्रलम्भः = कृतः ( विहितः ), सीतायाः ( जानक्या: ) विप्रलम्मः (विप्रयोगः ) येन सः । कनकमृगः = सुवर्णहरिणः, मारीच इति भावः । राघवं = रामचन्द्रम्, अतिदूरम् =अतिशयविप्रकृष्टप्रदेशं, जहार-हृतवान् । अत्रोत्प्रेक्षाऽलङ्कारः । यत्रेति । यत्र = पञ्चवट्यां, मैथिलीवियोगदुःखदुःखितौ = मैथिल्या: (वैदेह्याः ) वियोगेन (विरहेण ) यदुखं ( क्लेश: ) तेन दुःखितौ ( सजातदुःखौ ), रावणविनाशसूचकौ% रावणस्य ( दशवदनस्य ) यो विनाशः (ध्वंसः) तस्य सूचको ( ज्ञापको ) रामलक्ष्मणौ = कौशल्यासुमित्रातनयौ, चन्द्रसूयौं = इन्दुभास्करौ, इव, कबन्धग्रस्तौ = कबन्धेन ( राहुणा, रामलक्ष्मणपक्षे )-दानव सुनकर भगवान् रामके त्रैलोक्यके छिद्रोंको व्याप्त करनेवाले चापके शब्दका स्मरण करते हुए वार्धक्यसे जीर्ण सींगोंके अग्रभागवाले सीताजीसे बढ़ाये गये बूढ़े मृग दशों दिशाओंको शून्य देखकर निरन्तर आँससे व्याप्त नेत्रोंवाले होकर घासकी कौरको ग्रहण नहीं करते हैं। जिसमें लगातार शिकार करनेसे मारे गये (मृगों) से बचे हुए वनके मृगोंसे प्रोत्साहित-सा होकर सीताका वियोग करनेवाला मोनेका मृग (मारीच ) रामचन्द्रको बहुत दूर लेगया। जहां सीताके वियोगके दुःखमे दुःखित रावण-विनाशक: मूनक चन्द्र और मूर्यके समान कवन्ध (राम और लक्ष्मणके पकड़नेवाला दनु वा राहु ) से ग्रस्त राम और लक्ष्मणने एक ही वार त्रैलोक्यमें अधिक भय कर
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy