SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ MP कथामुखे-अगस्त्याश्रमः दक्षिणाशा-मुख-विशेषकस्य सुरलोकादेकहुङ्कारनिपातित नहुषप्रकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य-भार्यया लोपामुद्रया स्वयमुपरचितालबालकः करपुटसलिलसेक-संवद्धितः सुतनिविशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गहीतव्रतेनाषाढिना पवित्रभस्म-विरचित-त्रिपुण्ड्रका ( आदेशः ) यस्य, तस्य । “अगस्त्यस्ये' त्यस्य विशेषणम्, एवं परत्राऽपि । “सुमेरुमिव मामपि प्रदक्षिणीकूरु" इति विन्ध्यस्याऽनुरोधे भास्करेणाऽवधोरिते सति विन्ध्यः सूर्यमार्ग स्व शखरनिकरप्रवर्द्धनपूर्वकमवरोध । ततो देवप्रार्थनया तत्राऽगस्त्यमुनिः समाययौ, विन्ध्यगिरिश्च तं प्रणनाम, "यावदहं न प्रत्यागच्छेयं तावत्त्वं प्रणतस्तिष्ठेरिति मुनिवचसा स तथैव तस्थौ, सोऽपि पुनर्न प्रत्याययाविति पौराणिकी कथाऽनुसन्धेया। जठराऽनलजीर्णवातापिदानवस्य - जठराऽनलेन ( उदराऽग्निना ) जोर्णः (पाकविषयीकृतः ) वातापिदानवः (वातापिनामको दनुजः ) येन, तस्य । पुरा इल्वलो नाम दानवो ब्राह्मणवेषं विधाय मेषरूपविधायिनः स्वकनीयसो वातापिदानवस्य मांसेन निमन्त्रिताबहन्ब्राह्मणान्भोजयामास । भोजनाऽनन्तरम् "एहि वातापे" इति मायाविना तेने वलेनाकारितोवातापिर्दाह्मणानामुदरं भित्त्वा निश्चक्राम । ततश्च तादृशं ब्राह्मणकदर्थनं दृष्ट्वा दथमानानां देवानां प्रार्थनयाऽगस्त्यो वातापि जरयामास, जघान चेल्वलमिति महाभारतीया कथाऽनुसन्धेया। सुराऽसुरेत्यादिः = सुराः ( देवा: ) असुराः (सुरविरोधिनो दैत्यादयः ) तेषां मुकुटेषु (किरोटेषु ) यानि मकरपत्त्राणि ( मकराऽऽकाराः पक्षाः ) तेषां कोटयः ( अग्रभागा: ) ताभिश्चुम्बितानि ( संयोगविषयी कृतानि ) चरणरजांसि ( पादधलयः ) यस्य, तस्य । सुरासुरसम्मानभाजनस्येति भावः । दक्षिणामुखविशेषकस्य = दक्षिणा ( अवाची दिक), तस्या मुखं ( वदनम् ) तस्य विशेषकस्य (तिलक रूपस्य )। अत्राऽगस्त्ये विशेषकत्वारोपस्य दक्षिणदिशि वधुत्वारोपः कारणमिति परम्परितरूपकमलङ्कारः । सुरलोकात् = देवलोकात्, स्वर्गादिति भावः । एकहुङ्कारेत्यादि: एकहङ्कारेण ( एकहुकृत्या ) निपातितः (भ्रंशित: ) नहुषस्य (नहुषभूपस्य चन्द्रवंशोत्पत्रस्य कस्यचिद्राज्ञः ) प्रकट: ( व्यक्तः ) प्रभाव: ( महत्त्वम् ) येन, तस्य । भगवतः = षड्विधैश्वर्यसम्पन्नस्य, महामुनेः = महर्षेः, अगस्त्यस्य % कुम्भसंभवस्य । पुरा वृत्रवधाद् ब्रह्महत्यया देवेन्द्रे स्वर्गराज्यच्युते सति देवरराजकत्वपरिहाराय भूपो नहुषः स्वर्गगज्येऽभिषिक्तस्ततो राजमदेन स इन्द्राणी चकमे। ततश्च सुरगुरुमन्त्रणया शच्या महर्षिभिरूढां शिबिकामारुह्य मत्प्रासादमायातु भवान्, अहं त्वदीया भवामी" ति सन्दिष्टम् । ततः म महर्षिभिरूढया शिबिकया शचीसमीपमागन्तुमुद्यतः । शिबिकावहने मन्दगतिमगस्त्यं त्वराऽथं "सर्प स"ति ब्रवन् पदाऽभिजघान । ततश्र महर्षिणा "सो भवेति शप्तः स सो जातः, तं च भगवान् श्रीकृष्णो निजकरकमलस्पर्शेन उद्दधारेति महाभारतोया कथाऽनुसन्धया । तादृशस्य महामुनेः, भार्यया = पन्त्या, लोपामुद्रया = राजकुमार्या, स्वयम् = आत्मना, उपरचिताऽऽलवालकः = उपरचितानि (परिनिर्मितानि ) आलवालकानि ( आवापा: ) येषां, तैः । करपुटसलिलसेकसंवद्धितः = करपुटेन ( हस्तयग्मेन ) यः सलिलसेकः ( जलसेचनम् ), तेन संवद्धिताः ( सम्यग्वृद्धि प्राप्तिाः ), तैः, सुतनिर्विशेषैः = पुत्रसदृशैः, पादपैः = वृक्षः, उपशोभितं = सजातशोभम् । "तत्पुत्रेण दृढदस्यनाम्ना पवित्रीकृतम्", अत्र दृढदस्योविशेषणानि—गृहीतव्रतेन = गृहीतं ( स्वीकृतम् ) व्रतं ( ब्रह्मचर्यनियमः ) येन, तेन । आषाढिना = आषाढः (पलाशदण्ड: ) अस्याऽस्तीति, तेन पलाशदण्डयक्तेन । “पालाशो दण्ड आषाढो व्रते" इत्यमरः । पवित्रभस्मेत्यादिः = पवित्रं ( प्रयतम् ) पचानेवाले, जिनके चरणोंकी धूलको देवता और दैत्योंके किरीटस्थित मकराकार पत्रोंके अग्रभागने स्पर्श कर लिया था, दक्षिणदिशारूप स्त्रीके मुखके तिलकके सदृश, एक हुङ्कारसे ही देवलोक से राजा नहुषके प्रकाशित प्रभाबको गिरानेवाले भगवान महामुनि अगस्त्यकी पत्नी लोपामुद्रासे जिनके आलवाल (क्यारी) को रचना की थी, अञ्जलिसे जलके सेचनसे बढ़ायेगये पुत्रोंके समान वैसे वृक्षोंसे शोभा सम्पन्न, तथा ब्रह्मचर्य व्रतको ग्रहण करनेवाले
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy