SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कथामुखे-विन्ध्याटवीवर्णनम् कथं पञ्जरबन्धनम् ? कथं चण्डाल-हस्तगमनम् ? इह वा कथमागमनम् ? । वैशम्पायनस्तु स्वयमुपजातकुतुहलेन सबहुमानमवनिपतिना पृष्ठो मुहुर्त्तमिव ध्यात्वा सादरमब्रवीत्-"देव ! महतीयं कथा, यदि कौतुकमाकर्ण्यताम्" ___अस्ति पूर्वापर-जलनिधि-वेलावनलग्ना मध्यदेशालङ्कारभूता मेखलेव भुवः, वनकरिकुल-मदजल सेक-संवद्धितरतिविकच-धवल-कुसुमनिकरमत्युच्चतया तारा-गणमिव शिखरदेशलग्नमुद्वद्भिः पादपैरुपशोभिता, मदकल-कुररकुल-दश्यमान-मरिचपल्लवा, करिकिकारणम् । उत = अथवा, वरप्रदान = देवादिवरवितरणं जन्माऽन्तरानुस्मरणकारणमिति भावः । अथवा = उताहो, कश्चित् = कोऽपि त्वं, विहगवेषधारी=विहगस्य (पक्षिण: ) वेषधारी ( नेपथ्यधारक: ) सन्, छन्नं = प्रच्छन्नं यथा स्यात्तथा, निवससि = निवासं करोषि ?, पूर्व = प्रथम, क्व = कूत्र, उषितं =स्थितम् । वा= अथवा । वयः = अवस्था, किया = किंपरिमाणं, पञ्जरबन्धनं = पञ्जराऽवस्थानं, कथं = केन प्रकारेण, जातमिति शेषः । चाण्डालहस्तगमनं = दिवकीर्तिकरप्रापणं, कथं = केन प्रकारेण, जातम् । वा = अथवा इह = अत्र,मत्सन्निधौ आगमनं = प्राप्तिः, कथम् ? उपजातकुतुहलेन = उपजातम् ( उत्पन्नम् ) कुतुहल ( कौतुकम् ) यस्य तेन, तादृशेन अवनिपतिना=राज्ञा शद्रकेण, स्वयम् = आत्मना, सबहुमानम् = अधिकसत्कारपूर्वकं, पृष्ठः = अनुयक्तः, वैशम्पायनस्तु = तन्नामकः शुकस्तु, मुहूर्तम् इव = कंचित्कालम् इव, ध्यात्वा = चिन्तयित्वा, सादरम् = आदरपूर्वकम्, अब्रवीत् = अवदत्, देव = महाराज!, इयम् = एषा, कथा = प्रवृत्तिः, मद्विषयेति शेषः, महती= सविस्तरा, कौतुकं यदि = कुतूहलं चेत्, आकर्ण्यतां = श्रूयताम् । अस्तीति । पूर्वाऽपरजलनिधिवेलावनलग्ना=पूर्वाऽपरौ (पूर्वपश्चिमौ ) यौ जलनिधो ( समुद्रौ ), तयोः यत् वेलावनं ( तटकाननम् ) तत्पर्यन्तं लग्ना ( सम्बद्धा ), मध्यदेशाऽलङ्कारभूता = उत्तर (हिमालय ) दक्षिण ( विन्ध्य ) पर्वतमध्यप्रदेशभूषणभूता। मध्यदेशलक्षणं यथा मनुस्मृतौ "हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥" २-२१ । भुवः = पृथिव्याः, मेखला इव = काञ्ची एव "विन्ध्याटवी'' इत्यत्र सम्बन्धः । वनकरिकुलत्यादिः = वने (अरण्ये ) करिणां ( हस्तिनाम् ) कुलानि (यूथानि) तेषां यत् मदजलं ( दान-वारि ) तस्य सेकः ( सेचनम् ) तेन संवद्धितः ( वृद्धि प्राप्तः), "पादपै" रित्यस्य विशेषणम् । शिखरदेशलग्नं = शृङ्गप्रदेशस्थितम्, अतिविकचेत्यादि:०=अतिविकचानि ( अतिशयविकसितानि ) धवलानि ( शुक्लानि ) यानि कुसुमानि (पुष्पाणि ), तेषां निकरं ( समूहम् ), अत: अत्युच्चतया = अतिशयोन्नतत्वेन । तारागणम् इव = नक्षत्रसमूहम् इव, उद्वद्भिः =धारयद्भिः पादपः-वक्षः, उपशोभिता=शोभां प्रापिता। "तारागणम् इवे" त्यत्रोत्प्रेक्षाऽलङ्कारः । मदकलेत्यादिः = मदेन (मत्तभावेन ) कलाः ( मनोहराः ) ये कुरराः ( उत्क्रोशाः ) तेषां कुलं (समूहः ) तेन दश्यमानानि (भक्ष्यमाणानि) आपने नृत्यगीत आदि कलाओंको प्राप्त किया ? पूर्वजन्मके स्मरणका कारण क्या है ? अथवा वर मिलनेसे हुआ है ? अथवा पक्षीका वेष लेनेवाले आप कोई गुप्त रूपसे रहते हैं ? आप पहले कहाँ रहे ? आपकी उम्र क्या है ? आप कैसे पिंजड़ेके बन्धनमें पड़े ? कैसे चाण्डालके हाथमें जाना हुआ ? अथवा यहाँपर आप कैसे आ गये?" । इस प्रकार उत्कण्ठावाले राजासे स्वयम् बहुत सम्मानसे पूछा गया वैशम्पायन कुछ काल तक सो वकर आदरपूर्वक बोला-"महाराज ! यह लम्बी कथा है। आपको उत्कण्ठा है तो सुन लें"। पूर्व और पश्चिमके समुद्रकी तीरभूमिके वनोंसे सम्बद्ध मध्यदेशके अलङ्कारको समान, पृथ्वीकी मेखला (करधनी ) की तरह प्रतीत होनेवाली, विन्ध्याऽटवी (विन्ध्यपर्वतकी वनभूमि ), इसका पीछे तक सम्बन्ध है। जो जङ्गली हाथियोंके मदजलके सेचनसे बढ़ाये गये अत्यन्त ऊँचे होनेसे अतिशय खिले हुए पुष्पसमूहकी मानों शिखरप्रदेशमें लगे हुए तारासमूहको धारण करते हुए पेड़ोंसे शोभित है, जहाँपर मदसे मनोहर कुरर पक्षी मरिचके
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy