SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कथामुखे—शूद्रकस्नानम् अपनीताभरणश्च दिवसकर इव विगलितकिरणजाल:, चन्द्रतारकाशून्य इष गगनाभोगः समुपाहृत समुचित व्यायामोपकरणां व्यायामभूमिमयासीत् । स तस्याञ्च समानवयोभिः सह राजपुत्रः कृतमधुरव्यायामः श्रमवशादुन्मिषन्तीभिः कपोलयोरीषदवलित-सिन्दुवार - कुसुम-मञ्जरी - विभ्रमाभिः, उरसि निर्द्दयश्रम-च्छिन्न-हारविगलितमुक्ताफल प्रकारानुकारिणीभिः ललाटपट्टकेऽष्टमी - चन्द्र- शक्ल-तलोल्लस दमृतबिन्दुबिडम्बिनीभिः स्वेदजल-कणिकासन्ततिभिरलङ्क्रियमाणमूर्त्तिः, इतस्ततः स्नानोपकरणसम्पादनसत्वरेण ४५ राजलोका: (नृपसमूहाः ) येन सः, तादृशः सन् । विश्रम्यतां = विश्रमः क्रियताम् इति = एवं, स्वयम् = आत्मना, तां = चाण्डालकन्यकाम्, अभिधाय = उक्त्वा, वैशम्पायनः = शुकः, अभ्यन्तरं = प्रासादमध्यं, प्रवेश्यतां = प्रवेशपात्रीक्रियताम्, इति = एवं ताम्बूलकरङ्कवाहिनीं = नागवल्लीदलपात्रधारिणीं स्त्रियम्, आदिश्य – आज्ञाप्य, कतिपयराजपुत्रपरिवृतः = कतिपये ( कियन्तः ) ये राजपुत्राः (नृपकुमाराः ) तैः परिवृत: ( परिवेष्टितः ) सन् । अभ्यन्तरं = प्रासादमध्यं प्राविशत् = प्रविष्टः । = अपनीतेति । अपनीताभरण:- अपनीतानि ( शरीराद् दूरीकृतानि ) आभरणानि ( अलङ्काराः ) येन सः, विगलितकिरणजाल: = विगलितानि ( स्रस्तानि ) किरणजालानि ( करसमूहाः ) यस्य सः, तादृशः, दिवसकर इव = सूर्य इव चन्द्रतारकासमूहशून्यः = चन्द्र: ( इन्दुः ) तारकासमूहः ( नक्षत्रसमूहः ) ताभ्यां शून्य : ( रहितः ), गगनाऽऽभोगः = आकाशमण्डलम् इव समुपाहृतेत्यादि: : समुपाहृतानि ( भृत्यैः समुपानीतानि ) समुचितानि ( योग्यानि ) व्यायामे ( शरीरश्रमाऽभ्याते ) उपकरणानि ( लौहमुद्गरादीनि साधनानि ) यस्यां तां तादृशीं व्यायामभूमिम् = शरीरश्रमाऽभ्यासभुवम्, अयासीत् = अगमत् । अत्र " दिवसकर इव" "गगनाऽऽभोग इव' इति स्थलद्वये उपमालङ्कारयोमिथोऽनपेक्षया स्थिते: संसृष्टिः । स इति । सः = राजा, तस्यां = व्यायामभूमौ । समानवयोभिः = समानं ( तुल्यम् ) बय: ( अवस्था ) येषां तैः, वयस्यैरित्यर्थः । राजपुत्रैः = भूपकुमारः, सह = समं कृतमधुर व्यायाम: कृत: ( विहित ) मधुर : ( शोभनः ) व्यायाम: ( शरीरपरिश्रमः ) येन सः, "मधुरो स्वादुशोभनौ ” इति व्याडि: । श्रमवशात् = व्यायामवशात्, कपोलयोः = गण्डफलकयोः उन्मिषन्तीभिः = प्रकाशमानाभिः । ईषदव लितेत्यादिः = ईषत् ( किञ्चित् ) अवदलितं ( मर्दितम् ) यत् सिन्दुवारस्य ( निर्गुण्डघा: ) कुसुमं ( पुष्पम् ), तस्य मञ्जरी ( वल्लरी ) तस्या इव विभ्रमः ( विलासः ) यासां ताभि: । उरसि = वक्षःस्थले, निर्दयश्रमेत्यादिः = निर्दयश्रमेण ( कठिन प्रयासेन ) आच्छिन्नः ( छेदं प्राप्तः ) यो हार : ( मुक्तावली ) ततो विगलितानि ( अवस्रंसितानि ) यानि मुक्ताफलानि ( मौक्तिकफलानि ) तेषां प्रकर: ( समूहः ) तम् अनुकुर्वन्तीति तच्छीलाः, ताभि:, ललाटपट्टके = = मालपट्टके । अष्टमीचन्द्रेत्यादिः = अष्टमीचन्द्र: ( अष्टमीविधु: ) एव शकलं ( खण्डम् ), तस्य तलं ( स्वरूपम् ), तत्र उल्लसन्तः ( दीप्यमाना: ) ये अमृतबिन्दवः ( पीयूषपृषता: ) तान् विडम्बयन्ति ( अनुकुर्वन्ति ) तच्छीलाभिः तादृशीभिः, स्वेदजलकणिकासन्ततिभिः = स्वेदजलस्य ( निदाघसलिलस्य, श्रमवशादुपजातस्येति भाव: ) कणिका: ( जलकणा: ), तासां सन्ततिभिः ( परम्पराभि: ), अलङ्क्रिय भीतर प्रवेश कराओ” इस प्रकार पानके डिब्बेको लेनेवाली स्त्रीको आज्ञा देकर कुछ राजपुत्रोंसे घिरे हुए राजाने अन्तः पुरमें प्रवेश किया। अलङ्कारों को उतारकर किरणोंसे रहित सूर्यके समान, चन्द्र और ताराओंसे शून्य आकाशमण्डलके समान राजा कसरतकी सामग्रीसे युक्त व्यायामभूमिमें पहुँचे। वे वहॉपर समवयस्क राजपुत्रों के साथ सुन्दर व्यायाम ( कसरत ) करके परिश्रम करनेसे उठो हुई कपोलोंपर मर्दन किये गये निर्गुण्डीके फूलों की मञ्जरीकी समान वक्षःस्थलपर कठिन परिश्रम से टूटे हुए हारसे गिरे हुए मोतियोंका अनुकरण ( नकल) करनेवाली ललाटपर अष्टमीके चन्द्र के खण्डकं स्वरूपपर प्रकाश होनेवाली अमृतविन्दुओंका अनुकरण करनेवाली पसीनेकी जलविन्दुओंकी पङ्क्ति अलङ्कृत शरीरवाले, इधर-उधर स्नानकी सामग्री को जुटानेमें शीघ्रता करनेवाले आगे
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy