SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ कथामुखे-शूद्रकवर्णनम् अतिचिरकाललग्नमतिकान्तकुनृपतिसहस्रसम्पर्ककलङ्कमिव क्षालयन्ती यस्य विमले कृपाणधाराजले चिरमुवास राजलक्ष्मीः । यश्च मनसि धर्मेण, कोपे यमेन, प्रमादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दशिश्रिया, वाचि मरस्वत्या, सुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा च वसतः सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य । यस्य च मदकल-करि-कुम्भ-पीठपाटनमाचरता लग्न स्थूलमुक्ताफलेन, दृढ-मुष्टि अतिचिरकाललग्नम् = अधिकसमयसम्बद्धम्, अतिक्रान्तकुनृपतिसहस्रसम्यर्ककलङ्कम् = अतिक्रान्तः । व्यतीताः ) ये कनपतव्यः । अवद्या गजानः) तेषां सहस्रं (समदायः ) तस्य सम्पर्क: ( सम्बन्धः ) तेन यः कलङ्कः ( अपवादः ) तम् । “कलकोऽङ्काऽपवादयोः' इत्यमरः। क्षालयन्ती इव =धावयन्ती इव, राजलक्ष्मीः = भूपालथी:, यस्य% गज्ञ: शुद्रकस्य, विमले = निर्मले, कृपाणधाराजले = खङ्गनिशिताऽग्ररूपसलिले, चिरं = बहुकालं यावत्, उवास = वासं चकार । राजा शद्रकः खङ्गबलेन राजलक्ष्मी वशीकृतवानिति भावः । अत्र “क्षालयतीवे" त्यत्र क्रियोत्प्रेक्षा, कृपाणधारायां जलस्य रूपणाद्रपकाऽलङ्कारश्वेत्युभयोरङ्गाङ्गिभावेन सङ्करः ।। यश्च = शद्रकश्च, मनसि = चित्ते, "वसता" इति पदेन सम्बन्धः एवं परत्राऽपि । वसता = वासं कुर्वता, धर्मेण = पुण्येन, कोपे = क्रोधे, वसता यमेन = धर्मराजेन द्रसादे = अनुग्रहे, वसता, धनदेन = कुबेरेण, प्रतापे = कोशदण्डजे तेजसि, वसता, वह्निना = अग्निना, भुजे = बाहो, वसन्त्या भुवा = पृथिव्या, राज्यमारधारणसामर्थ्यात्, दृशि = चक्षुषि, वसन्त्या श्रिया = लक्ष्म्या, प्रीतिपूर्वकनिरीक्षणमात्रेण श्रीसम्भवादिति भावः । वाचि = वचने, वसन्त्या सरस्वत्या । सततगद्यपद्याद्यनेकप्रबन्धरचनादिति भावः । मुखे = वदने, वसता शशिना = चन्द्रमसा, आह्लादकारित्वादिति भावः । बले सामर्थ्य, वसता मरुता=वायुना, अतिसामर्थ्यशालित्वादिति भावः । प्रज्ञायां-बुद्धौ, वसता, सुरगुरुणा-बृहस्पतिना रूपे = सोन्दयें, वसता, मनसिजेन = कामेन, कामिनीमानहरणादिति भावः । तेजसि= प्रतापे, वसता सवित्रा = सूर्येण, सर्वदेवमयस्य = सकलसरस्वरूपस्य, प्रकटितविश्वरूपाऽऽकृतेः = प्रकटिता (प्रकाशिता) विश्वरूपस्य ( समस्तरूपस्य, विरारूपस्येति भावः ) आकृति: ( आकार: ) येन तस्य । भगवतः = षड्विधश्वर्यसम्पन्नस्य, "ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥" इति विष्णपुराणम् । नारायणस्य = श्रीविष्णोः, "कर्मादीनामपि सम्बन्धमात्रविक्षायां षष्ठयेव ।" इति नियमात्षष्ठी । नरस्य अपत्यानि नारा:, ता अयनं यस्य "आपो नारा इति प्रोक्ता आपो वै नरसनवः । ता यदस्याऽयनं पूर्व तेन नारायणः स्मृतः ।। मनु०१-१० । अनुकरोति = अनुकरणं करोति ॥ च = किञ्च, मदकलकारकुम्भपीठपाटन = मदेन ( दानजलेन ) कला: ( मनोहरा: ये करिणः ( वैरिहस्तिनः ) तेषां कुम्भपीठानि ( मस्तकपिण्डफलकानि ), तेषां पाटनम् ( विदारणम् ), विदधत':= कुर्वतः, यस्य = राज्ञः शुद्र कस्य, आगामिना "समीपम्" इति पदेन सम्बन्धः । लग्नस्थलबहुत कालोंसे लगे हुए व्यतीत हजारों निन्दित राजाओंके सम्पकके कलङ्कको धोती हु मी राजलक्ष्मीने जिनके खङ्गधारारूप निर्मलजलमें बहुत समयतक निवास किया। जो राजा शूद्रक मनमें रहनेवाले धर्मसे, कोपमें रहने वाले यमराजसे प्रसन्नतामें रहनेवाले कुबेरसे, प्रतापमें रहने वाले अग्निमे, बाहुमें रहनेवाली पृथिवीसे, नेत्र में रहनेवाली श्रीसे, वाणीमें रहनेवाली सरस्वतीसे, मुखमे रहनेवाले चन्द्रसे बलमें रहनेवाले वायुदेवसे, बनिमें रहनेवाले बृहस्पतिसे मौन्दर्यमें रहनेवाले कामदेवसे तेजमें रहनेवाले सूर्यसे भी इस प्रकार समस्तदेवस्वरूप होकर और विश्वरूप ( विराटप )के आकारको प्रकट करनेवाले भगवान् नारायणका अनुकरण ( नकल ) करते थे। मदके जलसे मनोहर हाथियोंके मस्तकपिण्डोंको विदारण करनेवाले जिन राजा (शूद्रक )के बड़ीबड़ी १."विदधता" इति पाठान्तरे, “कृपाणेने"तिपदं विशेष्यम्।
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy