SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १३ कथामुखे-शूद्रकवर्णनम् इव भगीरथपथप्रवृत्तः, रविरिव प्रतिदिवसोपजायमानोदयः मेरुरिव सकलोपजीव्यमानपादच्छायः, दिग्गज इवानवरतप्रवृत्तदानार्दीकृतकरः कर्ता महाश्चर्याणाम्, आहर्ता ऋतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आगमः काव्यामतरसानाम्, उदयशैलो मित्रमण्डलस्य, उत्पातकेतुरहितजनस्य, प्रवर्त्तयिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरेयः साहसिकानाम्, अग्रणीमेदिनी। गङ्गाप्रवाहः = गङ्गायाः ( भागीरथ्या: ) प्रवाहः ( स्रोतः ), इव, भगीरथपथप्रवृत्तः = भगीरथस्य ( भगीरथनामकसूर्यवंशोत्पन्नराजविशेषस्य ) पन्था: ( मार्गः )। तत्र प्रवृत्तः ( लग्नः )। धैर्यपूर्वक कार्याऽनुष्ठातेति भावः । उपमाऽलङ्कारः। पूर्वकाले गज्ञः सगरस्याऽश्वमधयज्ञानुष्टान भ्रमन्तमश्वं देवराज इन्द्र : पाताले कपिलाश्रमसन्निधौ बद्धवान् । ततश्वाऽश्वाऽन्वेषणप्रवृत्ता: मगरसुतास्तमश्वं कपिलाश्रमसमीपे दृष्ट्वा कपिलं हन्तुमुद्यता बभूवुस्तदनु तेन मुनिना सकोपं विलोकितास्ते भस्मीबभूवुः । बहुकालानन्तरं सगरप्रपौत्रो भगोरथः स्वपूर्वजोद्धारार्थ तपश्चचार, गङ्गावतारणत: स्वपूर्वजांथोद्दधारेति पौगणिकी वार्ता। विरिव = सुर्य इव, प्रतिदिवसोपजायमानोदयः = प्रतिदिवसम् (प्रतिदिनम् ) उपजायमानः ( उत्पद्य मानः ) उदयः ( सूर्यपक्षे-उद्गमः । राजपक्षे-अभ्युदयः ) यस्य सः । पूर्णापमाऽलङ्कारः। मेरुरिव = सुमेरु पर्वत इव, सकलोपजीव्यमानपादच्छाय:= सकलं: ( समस्तैः ) उपजीव्यमाना ( आश्रीयमाणा ) पादानां ( मेरुपक्ष-प्रत्यन्तपर्वतानां, राजपक्षे—पादयोः = चरणयोः ) छाया ( मेरुपक्षे—आतपाऽभावः, राजपक्षे--कान्तिः ) यस्य स: । “पादाः प्रत्यन्तपर्वता" इति "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातप:' इत्यमरः । दिग्गज इव = ऐरावतादिदिङ्नाग इव, अनवरतप्रवृत्तदानाऽऽHऽकृतकरः = अनवरतं (निरन्तरं यथा तथा) प्रवृत्तं (सञ्जातम्) यत् दानं ( दिग्गजपक्षे मदजलं, राजपक्षे-धनादिवितरणम् ) तेन आर्टीकृतः ( क्लिन्नीकृतः ) कर: (दिग्गजपक्षे-शुण्डादण्डः, राजपक्षे-हस्तः ) यस्य सः । “दानं गजमदे त्यागे इति "करो वर्षोपले रश्मौ पाणी प्रत्यायशुण्डयोः ।" इति च मेदिनी। पूर्णोपमाऽलङ्कारः। महाऽऽश्वर्याणां = असाधारणयद्धादिमहाद्भुतकर्मणां, कर्ता = कारकः । कर्मणि षष्ठी, एवं परत्राऽपि । क्रतूनां = यज्ञानाम्, आहर्ता = कर्ता, सर्वशास्त्राणां= घेदादिसकलवाङ्मयानाम्, आदर्श:= दर्पणः, तस्मिन् राजनि सर्वशास्त्रतत्त्वानां प्रतिबिम्बितत्वादिति भावः । कलानां = नृत्यगीतादिचतुःषष्टिकलानाम्, उत्पत्ति:= उत्पत्तिस्थानम् । गुणानां = दयादाक्षिण्यशौर्यधैर्यादिगुणानां, कुलभवनं = वंशपरम्पराऽऽधारस्थानम् । काव्याऽमृतरसानां = साहित्यपीयूषरसानाम्, आगमः = उत्पत्तिस्थानम् । अत्रकस्य शूद्र कभूपस्य विषयाणां भेदेनाऽनेकधोल्लेखादुल्लेखाऽलङ्कारः । मित्रमण्डलस्य = मित्राणां (सुहृदाम् ) मण्डलस्य ( समूहस्य )। उदयशैल:= अभ्युदयस्थानम् । पक्षान्तरे-मित्रस्य (सूर्यस्य ) मण्डलस्य (बिम्बस्य ) उदयशैल:= उदयपर्वतः । "मित्रं सुहृदि न द्वयोः । सूये सि इति ।" उदयस्तु पुमान् पूर्वपवते च समुन्नतौ।" इति च मेदिनी। अत्र श्लेषाऽलङ्कारः । अहितजनस्य = शत्रुलोकस्य, उत्पातकेतु:= अनिष्टसूचको धूमकेतुः । अत्र रूपकाऽलङ्कारः । वैसे ही सम्पत्तिके उत्पत्तिस्थान—जैसे गङ्गाजीका प्रवाह राजा भगीरथके मार्गमें प्रवृत्त है वैसे ही भगीरथके मार्गमें प्रवृत्त (धैर्यपूर्वक कार्यको सम्पन्न करने वाले ), जैसे सूर्य प्रतिदिन उदय (पर्वत )को प्राप्त होते है वैसे ही प्रतिदिन अभ्युदयको प्राप्त करने वाले, जैसे सुमेरु पर्वतके प्रत्यन्त प्रर्वतों (तलहटियों)की छायाको सबलोग आश्रय करते हैं, उसी तरह जिनके चरणकी छायाको सबलोग आश्रय करते थे। जैसे निरन्तर मदजलके बहनेसे दिग्गजका कर (सूड ) निरन्तर आर्द्र होता है उसी तरह लगातार होनेवाले दानसे आर्द्रहाथ वाले, बड़े-बड़े आश्चर्यजनक कर्मीको करने वाले, यज्ञोंका विधान करनेवाले, समस्त शास्त्रोंके आदर्शस्वरूप, नृत्य आदि कलाओंके उत्पत्तिस्थान, दाक्षिण्य आदि गुणोंके वंशपरम्परास्थान, काव्यके अमृतरसोंके उत्पत्तिस्थान, जैसे मित्र (सूर्य) मण्डलके उदयके लिए उदय पर्वत होता है वैसे ही मित्रमण्डलके अभ्युदयके पर्वतके समान, शत्रुगणके उत्पातसूचक धूमकेतुके समान,
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy