SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कथामुखे – रात्रिवर्णनम् न्तस्थिततनुस्तिमिर- तमाल-वृक्ष-लेखम्, सप्तर्षिमण्डलाध्युषितम्, अरुन्धतीसञ्चरणपूतम्, उपहिताषाढम्, आलक्ष्यमाणमूलम् एकान्तस्थितचारुतारकमृगम् अमरलोकाश्रममित्र गगनतलम् अमृत-दीधितिरध्यतिष्ठत् । चन्द्राभरणभृतस्तारकाकपाल-शकलालङ्कृतादम्बरतलात् त्र्यम्बकोत्तमाङ्गादिव गङ्गा सागरानापूरयन्ती हंस-धवला धरण्यामपतज्ज्योत्स्ना । हिमकर c = विरागः, "कुगतिप्रादय" इति समासः । विरागस्य भावो वैराग्यम् । धौतदुकूलेत्यादिः = धौतदुकूलवल्कलम् ( प्रक्षालितक्षौमवत्कम् ) इव अम्बरं ( वस्त्रम् ) यस्य सः । पक्षान्तरे- धीतदुकूलवल्कलम् इव अम्बरम् ( आकाशम् ) यस्य सः । सताराऽन्तःपुरः = सतारम् ( सप्रणवम् ) अन्तःपुरं ( हृदयमध्यम् ) यस्य सः । प्रणववाच्यब्रह्मध्याननिष्ठ इति भावः । पक्षान्तरें - तारा : ( अश्विन्यादयः ) एव अन्तःपुराणि ( लक्षणया अन्तःपुरस्थिताः स्त्रियः ) यस्य सः । एतादृशः अमृतदीधिति: सुधांशु:, चन्द्र इति भावः । पर्यन्तस्थिततनुः = पर्यन्ते ( आकाशकदेशे ) स्थिता ( विद्यमाना ) तनुः ( शरीरं, बिम्बम् ) यस्य सः । तिमिरतमालवृक्षलेखं - तिमिरम् इव ( श्यामेति शेष: ) तमालवृक्ष लेखा ( तापिच्छत रुपक्तिः ) यस्मिस्तम् । सप्तर्षिमण्डलाऽध्युषितं = सप्तर्षीणां (मरीच्यादिमहर्षीणाम् ) यत् मण्डलं ( समूहः ) तेन अध्युषितम् ( कृतनिवासम् ), अरुन्धतीसञ्चरणपूतम् = अरुन्धती ( वशिष्ठपत्नी ) तस्याः सञ्चरणं ( परिभ्रमणम् ) तेन पूतम् ( पवित्रम् ), उपहिताषाढम् = उपहितः ( सन्निहित: ) आषाढ : ( पलाशदण्ड: ) यस्मिस्तम् । आलक्ष्यमाणमूलम् = आलक्ष्यमाणानि ( समन्तादृश्यमानानि ) मूलानि ( वृक्षमूलानि ) यस्मिस्तम् । एकान्तस्थितचारुतारक मृगम् = एकान्ते ( एकभागे ) स्थिता: ( विद्यमानाः ) चारुतारका: ( चारु = मनोहरे, तारके = कनीनिके, येषां ते तादृशाः मृगाः ( हरिणाः ) यस्मिस्तम् । तादृशम् अमरलोकाश्रमं = देवलोकाश्रमम्, इव, गगनतलपक्षे - तिमिरतमालवृक्ष लेखं : = तिमिरम् ( अन्धकारम् ) एव तमालवृक्षलेखा यस्मिस्तत् । सप्तर्षिमण्डलाऽध्युषितम् = सप्तर्षिमण्डलेन ( सप्तर्षिसंज्ञकतारासमूहेन ) अध्युषितं ( कृतनिवासम् ), अरुन्धतीसंचरणपूतम् = अरुन्धती ( ताराविशेषः ) तत्सञ्चरणपूतम् । उपहिताषाढम् = उपहिते ( सन्निहिते ) आषाढे ( पूर्वाषाढोत्तराषाढे नक्षत्रे ) यस्मिस्तत् । आलक्ष्यमाणमूलम् = आलक्ष्यमाणं मूलं ( मूलनक्षत्रम् ) यस्मिस्तत् । एकान्तस्थितचारुतारकमृगम् = एकान्तस्थितः चारु: ( सुन्दर: ) तारकमृग: ( तारारूपं मृगशीर्षम् ) यस्मिस्तत् । एतादृशं गगनतलम् - आकाशमण्डलम्, अध्यतिष्ठत् = अधिष्ठितवान् । अत्रोपमाश्लेषयोरेकाश्रयाऽनुप्रवेशात्सङ्कराऽलङ्कारः । १५१ चन्द्राभरणभृत इति । चन्द्र: ( इन्दुः ) एव आभरणं ( भूषणम् ) तद् बिर्भात ( धारयति ) तस्मात्, तारकेत्यादिः ० = तारकाकपालशकलाऽलङ्कृतान् = तारकाः ( नक्षत्राणि ) एवं कपालशकलानि ( करखण्डानि ), तैः अलङ्कृतात् (भूषितान् ) तादृशात् अम्बरतलात् = आकाशमण्डलात् । सागरान् = समुद्रान्, आपूरयन्ती समन्ततः पूर्णान् कुर्वती, चन्द्रोदयेन समुद्रजलं वर्द्धत = रेशमी वस्त्र के समान वस्त्रवाले अथवा धोये हुए रेशमी वस्त्रके समान आकाशवाले होकर तारारूप अश्विनी आदि स्त्रियोंसे युक्त होकर अथव – प्रणवयुक्त हृदय मध्यवाले होकर प्रान्त भागों में स्थित शरीरसे युक्त होकर, अन्धकार सरीखे तमाल वृक्षोंकी कतारवाले, कश्यप आदि सप्तर्षियोंसे निवास किये गये, अरुन्धती ( वशिष्ठपत्नी) के सञ्चरणसे पवित्र, पलाशको दण्ड से युक्त, जि में जड़ें चारों ओर दिखाई देती थीं, जिसके एक भागमें सुन्दर आँखों की पुतलियांवाले मृग रहते थे, ऐसे देवलोकके आश्रम के समान अन्धकाररूप तमाल वृक्षोंकी पङ्क्तियोंસ युक्त, सप्तर्षि नक्षत्रोंसे निवास किये गये, अरुन्धती ( ताराविशेष) के सञ्चरणसे पवित्र जो पूर्वपदा और उत्तराषाढा नक्षत्र से युक्त है, जिसमें मूलनक्षत्र दिखाई देता है, जहाँ एक भागमें सुन्दर मृगशीर्ष नक्षत्र विद्यमान है ऐसे आकाशमण्डल में स्थिति की । चन्द्ररूप भूषणको धारण करनेवाले, तारा रूप कपाल खण्डासे अलङ्कृत, ऐसे आकाशमण्डलमें हंसके समान उज्ज्वल चांदनी, अर्धचन्द्ररूप भूषणको धारण करनेवाले ताराओंके समान कपाल
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy