SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ कादम्बरो पक्षपातः कृकवाकुषु न विद्याविवादेषु, भ्रान्तिरनलप्रदक्षिणासु, न शास्त्रेषु, वसुसङ्कीर्तनं दिव्यकथासु न तृष्णासु, गणना रुद्राक्ष-वलयेषु न शरोरेषु, मुनि-बाल-नाशः क्रतु-दीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन, मुखभङ्गविकारो जरया न धनाभिमानेन । यत्र च महाभारते शकुनि-वधः, पुराणे वायु-प्रलपितम्, वयःपरिणामेन द्विज-पतनम्, ( बन्धनम् ), व्रतेषु = उपनयनादिकर्मसु, ईष्याकलहेषु-ईर्ष्णया (परसंसर्गजनितया अक्षान्त्या) कलहेषु ( विग्रहेषु ), मेखलाबन्धः ( रसनया बन्धनम् ) न । यथोक्तं कुमारसंभवे रतिविलापे–“स्मरसि स्मर ! मेखलागुणैः०" ( ४-८ ) इत्यादिपद्येन । स्तनस्पर्शः = कुचामर्शनं, होमधेनुषु = हवनाऽर्थकनवप्रसूतासु गोषु, दोहनप्रसङ्ग इति शेषः । कामिनीषु = रमणीषु, रमणप्रसङ्ग इति शेषः । पक्षपातः - पक्षाणां (पतत्राणाम् ) पातः ( पतनम् ), कृकवाकुषु = कुक्कुटेषु, “कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः।" इत्यमरः । विद्याविवादेषु = वेदादिशास्त्राऽर्थेषु, पक्षपातः = पक्षद्वये एकतटपक्षासक्तिः, न, तटस्थताऽऽश्रयणादिति भावः । भ्रान्तिः = भ्रमणम्, अनलप्रदक्षिणासु= अग्निप्रदक्षिणासु, शास्त्रेषु = वेदादिशास्त्रेषु, भ्रान्तिः= मिथ्याज्ञानं, न, निर्धान्तज्ञानसंपन्नत्वादिति भावः । वसुसंकीर्तनं = वसूनां (ध्रुवाद्यष्टवसूनां देवानाम् ) कीर्तनं ( वर्णनम् ) दिव्यकथासु = देवाख्यानेषु, दिवि ( स्वर्ग भवा: दिव्याः = देवाः, दिवशब्दात् "धुप्रागपागुदक्प्रतीचो यत्" इति यत्, तेषां कथासु । तृष्णासु-स्पृहासु, विषयाणामिति शेषः, वसुसंकीर्तनं = धनप्रशंसनं न, "देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ।" इति "तृष्णा स्पृहापिपासे द्वे" इति चाऽमरः । गणना=संख्याकरणं, रुद्राक्षवलयेषु = रुद्राश्रसमूहेषु, शरीरेषु = देहेषु, शरीरादिपरिग्रहविशेषेषु, गणना = आदरः, न, तपस्विनां देहगेहादिविषयेषु ममत्वाभावादिति भावः । मुनिवालनाशः = तपस्विकेशध्वंसः, मुण्डनमिति भावः । “चिकुरः कुन्तलो वाल: कचः केशः शिरोरुहः ।" इत्यमरः । क्रतुदीक्षया= यज्ञनियमेन, मृत्युना = मरणेन हेतुना, बालनाशः= शिशनाशः, न, अत्र "वाल" इत्यत्र वबयोरभेद:-"यमकादौ मवेदक्यं डलोवोर्लरोस्तथा।" इति नियमेन बोद्धव्यः । आदिपदेन श्लेषादिपरिग्रहः । रामाऽनुरागः= रामे (दाशरथौ) अनुरागः (मक्तिः), रामायणेन = रामचरित्रवर्णनात्मकग्रन्थेन, यौवनेन = तारुण्येन हेतुना रामाऽनुरागः= रामायाम् (स्त्रियाम् ) अनुरागः (प्रणयः ) न । "रामा योषाहिङ्गनद्यो:" इति मेदिनी। मुखमङ्गविकारः= मुखे ( वदने) भङ्गविकार: (भेदविकृतिः, बलिरूप इति भावः ) जरया=वार्द्धक्येन, धनाऽभिमानेनद्रव्यगर्वेण, मुखमङ्गविकारः (वदनभेदविकृतिः) न, "मङ्गो जयविपर्यये। भेदरोगतरङ्गेषु" इति मेदिनी । यत्र = यस्मिन् आश्रमे, महाभारते = जयनामक इतिहासविशेषे, शकुनिवधः = शकुने: ( दुर्योधनमातुलस्य ) वधः ( विनाशः), अस्मिस्तु शकुनिवधः= शकुनेः ( पक्षिणः) वधः (विनाशः) न, आश्रमे हिंसाऽभावादिति भावः । "शकुनिः पुंसि विहगे सौबले करणान्तरे।" इति मेदिनी। अत्राऽऽर्थी परिसंख्याऽलङ्कारः, एवं परत्राऽपि । पुराणे पञ्चलक्षणे वाय्वादिके, "पुराणं पञ्चलक्षणम्" आदि व्रतोंमें न कि ईर्ष्या-कलहोंमें, स्तनोंका स्पर्श होमकी गायोंमें न कि रमणियोंमें, पक्षपात (पंखोंका गिरना) मुर्गोमें, पक्षपात (विवादमें एक पक्षमें पड़ना ) विद्याके विवादोंमें नहीं, भ्रान्ति (भ्रमण करना) अग्निकी प्रदक्षिणाओंमें, भ्रम = मिथ्याज्ञान, शास्त्रों में नहीं, वसु (ध्रुव आदि देवविशेष ) का कीर्तन देवताओंकी कथाम, वसु (धन) का कीर्तन तृष्णाओं (विषयोंके अभिलाषों ) में नहीं, गणना रुद्राक्षोंकी मालाओंमें, शरीरोंमें गणना ( आदर ) नहीं, मुनियोंकी वालों ( केशों) का ध्वंस यज्ञदीक्षासे, मृत्युसे मुनिबालनाश-मुनियोंका बालनाश नहीं, रामाऽनुराग ( राममें प्रीति ) रामायणसे, रामाऽनुराग (रामा-स्त्री) में अनुराग (प्रेम) यौवन ( जवानी ) से नहीं, मुखमें भङ्ग विकार भेदसे झुर्रारूप विकार ) बुढ़ापासे, मुखके भेदका विकार धनके अभिमानसे नहीं। जहाँ ( आश्रममें ) महाभारतमें शकुनि (दुर्योधनके मामा ) का वध, शकुनि (पक्षी) का वध आश्रममें नहीं, पुराणमें वायुका प्रवचन, आश्रममें वायुरोगसे प्रलाप (अनर्थवचन) नहीं, दिजों (दाँतों) का पतन
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy