SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२४ कादम्बरी महम्, उद्दिश्यमान-श्राद्धकल्पम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमान-धर्म्मशास्त्रम्, वाच्यमानविविध - पुस्तकम्, विचार्य्यमाण सकलशास्त्रार्थम्, आरभ्यमाण- पर्णशालम्, उपलिप्यमानाजिरम्, उपमृज्यमानोटजाभ्यन्तरम्, आबध्यमानध्यानम्, साध्यमान- मन्त्रम्, अभ्यस्यमान-योगम्, उपहूयमान-वनदेवतावलिम्, निर्वत्र्त्यमान- मौञ्जमेखलम्, क्षाल्यमान- वल्कलम्, उपसंगृह्यमाण-समिधम्, उपसंस्क्रियमाणकृष्णाजिनम्, गृह्यमाण- गवेधुकम्, शोष्यमाण- पुष्करबीजं ग्रथ्यमानाक्षमालम्, गृह्यमाणत्रिपुण्ड्रकम्, न्यस्यमान- वेत्रदण्डम्, सत्क्रियमाण परिव्राजकम्, आपूय्यमाण-कमण्डलुम्, देवताश्च ) यस्मिस्तम् । अर्च्य मानहरिहरपितामहम् = अर्च्यमाना: ( पूज्यमानाः ) हरि: ( विष्णुः ) हर : ( शिवः ) पितामहः ( ब्रह्मा ) यस्मिस्तम् | उद्दिश्यमानश्राद्धकल्पम् = उद्दिश्यमान: ( उद्देशपूर्वकं क्रियमाणः ) श्राद्धकल्प: ( श्राद्धविधिः ) यस्मिस्तम् । व्याख्यायमानयज्ञविद्यं व्याख्यायमाना (साऽर्थंक निरूप्यमाणा ) यज्ञविद्या ( यागप्रतिपादकशास्त्रम् ) यस्मिस्तम् । आलोच्यमानधर्मशास्त्रम्=आलोच्यमानानि ( आलोचनाविषयीकृतानि ) धर्मशास्त्राणि ( मन्वादिस्मृतयः ) यस्मिस्तम् । वाच्यमानविविधपुस्तकं = वाच्यमानानि ( परिभाष्यमाणानि ) विविधानि ( अनेकप्रकाराणि ) पुस्तकानि ( शास्त्रग्रन्था: ) यस्मिस्तम् । विचार्यमाणसकलशास्त्राऽर्थं = विचार्यमाणा: ( विमृश्यमानाः ) सकलाः ( समस्ताः ) शास्त्राऽर्था: ( वेदादिशास्त्रविषयाः ) यस्मिस्तम् । आरभ्यमाणपर्णशालम् = आरम्यमाणाः ( उपक्रम्यमाणाः ) पर्णशाला: ( उटजा: ) यस्मिस्तम् । उपलिप्यमानाऽजिरम् - उपलिप्यमानानि ( गोमयादिना उपलेपविषयीकृतानि ) अजिराणि ( अङ्गनानि ) यस्मिस्तम् । “अङ्गणं चत्वराऽजिरे" इत्यमरः । उपेति । उपसृज्यमानानि ( संशोध्यमानानि ) उटजानाम् ( पर्णशालानाम् ) अभ्यन्तराणि (अन्तर्भागाः ) यस्मिस्तम् । आबद्धघमानध्यानम् = आबद्धधमानं ( क्रियमाणम् ) ध्यानम् ( चिन्तनम्, उपास्यदेवस्येति शेषः ) यस्मिस्तम् । साध्यमानमन्त्रं = साध्यमाना: ( सिद्धिविषयीक्रियमाणाः ) मन्त्राः ( मनवः, तत्तद्देवतानामिति शेषः ) यस्मिस्तम् । अभ्यस्यमानयोगम् = अभ्यस्यमानः ( वारं वारं क्रियमाण: ) योग: ( चित्तवृत्तिनिरोधः ) यस्मिस्तम् । उपहूयमानवनदेवताबलिम् = उपहूयमाना: ( हवनविषयीक्रियमाणा ) वनदेवताभ्यः ( अरण्याऽधिष्ठातृदेवेभ्यः ) बलय: ( पूजाद्रव्याणि ) यस्मिस्तम् । निर्वर्त्यमानमौञ्जमेखलं = निर्वर्त्यमाना (निष्पाद्यमाना ) मौञ्जमेखला ( मुञ्जतृणनिर्मितरसना ) यस्मिस्तम् । क्षाल्यमानवल्कलं = क्षाल्यमानानि ( शोध्यमानानि जलेनेतिशेषः ) वल्कलानि ( वल्कानि, वृक्षत्वच इत्यर्थः ) । यस्मस्तम् । उपसंगृह्यमाणसमिधम् = उपसंगृह्यमाणाः ( उपादीयमानाः ) समिधः ( इन्धनानि ) यस्मिस्तम् । उपसंस्क्रियमाण कृष्णाऽजिनम् = उपसंस्क्रियमाणं ( शुद्धीक्रियमाणं, प्रक्षालनादिनेति शेषः ) कृष्णाऽजिनं ( कृष्णसारमृगचमं ) यस्मिस्तम् । गृह्यमाणगवेधुकं = गृह्यमाणाः ( आदीयमानाः ) गवेधुका: ( गवेधवः, भाषायां " बाजड़ा" इति प्रसिद्धा धान्यविशेषाः ) यस्मिस्तम् । शोष्यमाणपुष्करबीजं = शोष्यमाणानि ( शोषं नीयमानानि ) पुष्करबीजानि ( वराटकाः ) यस्मिस्तम् । ग्रथ्यमानाऽक्षमालं = ग्रथ्यमाना ( गुम्फघमाना ) अक्षमाला ( रुद्राक्षमाला ) यस्मिस्तम् । न्यस्य शब्दयुक्त, कहीं अतिथियोंका सत्कार हो रहा था, पितृदेवताओंकी पूजा हो रही थी, विष्णु, शिव, और ब्रह्माकी पूजा हो रही थी, कहीं पर उद्देश्यपूर्वक श्राद्धविधान हो रहा था, कहीं यज्ञविद्याकी व्याख्या हो रही थी । कहीं धर्मशास्त्रोंकी आलोचना हो रही थी, कहीं अनेक पुस्तकोंका पाठ हो रहा था, कहीं समस्त वेदादि शास्त्रविषयोंका विचार हो रहा था, कहीं पर्णशाला बनाई जा रही थी, आंगनमें गोमयादिसे लेपन हो रहा था, कहीं पर्णशालाके भीतर म ( सफाई ) हो रहा था, कहीं ध्यान किया जा रहा था, कहीं मन्त्रोंका साधन हो रहा था, कहीं योगका अभ्यास हो रहा था, कहीं वनदेवताओंकी पूजाके पदार्थोंका हवन हो रहा था। कहीं मूँजकी मेखला बनाई जा रही थी, कहीं समिधाओंका संग्रह हो रहा था । कहीं कृष्णसार मृगके चर्मका उपसंस्कार हो रहा था, कहीँ गवेधुका (बजड़ा) - का ग्रहण किया जा रहा था, कहीं कमलबीज सुखाये जा रहे थे, कहीं रुद्राक्षमालाएँ गूंथी जा रही थीं, कहीं
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy