SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कथामुखे — जाबाल्याश्रमवर्णनम् ११९ अतिदूरमिव गत्वा दिशि दिशि सदासन्निहित-कुसुमफलैः ताल - तिलकतमाल - हिन्तालबकुलबहुलैः, एलालताकुलित - नालिकेरी - कलापैः लोल- लोध्र- लवली - लवङ्ग-पल्लवैः, उल्लसित - चूत - रेणु- पटले, अलिकुल- झङ्कार - मुखर - सहकारैः, उन्मद - कोकिल-कुल-कलाप - कोलाहलभिः, उत्फुल्ल- केतकी - रजःपुञ्ज - पिञ्जरैः, पूगीलता - दोलाधिरूढ - वनदेवतैः, तारकावर्षमिवा-धर्मविनाश-पिशुनं कुसुम-निकरमनिल चलितमनवरतमतिधवलमुत्सृजद्भिः, संसक्तपादपैः काननैरुपगूढम् अचकित-प्रचलित कृष्णसार शत-शबलाभिः, उत्फुल्ल-स्थलकमलिनी - लोहिनीभिः, = 1 अनतिदूरमिति । अनतिदूरमिव कियद्दूरमिव गत्वा = प्राप्य, "आश्रममपश्यमिति दूरस्थाम्यां पदाभ्यां सम्बन्धः । दिशि दिशि = प्रतिदिशं सदा सर्वदा, सन्निहितकुसुमफलं : = सन्निहितानि ( विद्यमानानि ) कुसुमानि ( पुष्पाणि ) फलानि ( सस्यानि ) येषु तैः । तालेत्यादिभिः = ताला: तृणराजा: ) तिलका: ( क्षुरका ), तमालाः ( तापिच्छा: ) हिन्ताला : ( वृक्षविशेषाः ) बकुला: केसरा: ), एते बहुला : ( प्रचुरा: ), येषु तानि तैः, "काननः" इत्यस्य विशेषणम् । एवं परत्राऽपि । एलालताऽऽकुलितनालिकेरीकलापैः = एलालताभि: ( चन्द्रबालावल्लीभिः ) आकुलिताः ( व्याप्ता: ), नालिकेरीकलापा: ( लाङ्गलीसमूहाः ) येषु तैः । “नालिकेरस्तु लाङ्गली”त्यमरः । लोललोघलवलीलवङ्गपल्लवैः = लोला : ( चञ्चलाः ) लोध्र- लवली - लवङ्गानां ( गालव- लताविशेषदेवकुसुमानाम् ) पल्लवाः ( किसलयानि ) येषु तैः । " लवङ्गं देवकुसुमं श्रीसंज्ञम्" इत्यमरः । उल्लसितचूतरेणुपटलैः = उल्लसितानि ( उद्दीप्तानि ) चूतरेणूनाम् ( आम्रकुसुमपरागाणाम् ) पटलानि ( समूहाः ) येषु तैः । अलिकुलझङ्कारमुखरसहकारै: = अलिकुलानां ( भ्रमरसमूहानाम् ) झङ्कारेण ( झकृत्या, शमिति ध्वनिनेति भावः ) मुखरा : ( शब्दायमाना: ) सहकाराः ( अतिसौरमयुक्ताम्रवृक्षाः ), येषु, तै: । उन्मदेत्यादिः ० = उन्मदाः ( उत्कटमदाः ) ये कोकिला: ( पिका ), तेषां कुलं ( सजातीयवर्गः ), तस्य कलापः ( समूहः ), तेन कोलाहलभि: ( कलकलशब्दयुक्तैः ), उत्फुल्ल केतकी - रजःपुञ्जपिञ्जरैः = उत्फुल्ला : ( विकसिताः ) याः केतक्य: ( क्रकचच्छदवृक्षाः ) तासां रजःपुञ्जा: ( परागसमूहाः ) तैः पिञ्जर : ( पीतवर्णै: ) । पूगीलतेत्यादिः ० = पूगीलताः ( क्रमुकवल्ल्यः ) एव दोला: ( प्रेङ्खाः), ता अधिरूढाः ( आश्रिताः ) वनदेवता: ( अरण्याऽधिदेव्यः ) येषु, तैः । “दोला प्रेङ्खादिका स्त्रियाम्” इत्यमरः । अधर्मविनाशपिशुनम् - अधर्मस्य ( पापस्य ) विनाश: ( ध्वंसः ) तस्य पिशुनम् ( सूचकम् ), सुरपूजोपयोगित्वेनेति भाव: । अनिलचलितं = वायुकम्पितम्, अतिधवलम्= अतिशयशुक्लं कुसुमनिकरं = पुष्पसमूहं, तारकावर्षम् इव = नक्षत्रवृष्टिम् इव, अनवरतं = निरन्तरम्, उत्सृजद्भिः = विकिरद्भिः, संसक्तपादपैः = संसक्ता: ( अन्योन्यं मिलिताः ) पादपा: ( वृक्षाः ) येषु, तैः । तादृशैः काननैः = वनैः, उपगूढं परितो व्याप्तम् । I = - अचकितेति । अचकितेत्यादिः ० = अचकिता : ( अत्रस्ताः ) प्रचलिता: ( प्रसृताः) ये कृष्णसाराः ( मृगविशेषाः ) तेषां शतं ( दशशती, बाहुल्यमिति भाव: ), तेन शबलाभि: ( चित्राभिः ) " दण्डकारण्यस्थलीमिः" इत्यस्य विशेषणम्, एवं परत्राऽपि । उत्फुल्लकमलिनी लोहिनीभिः = उत्फुल्ला: ( विकसिताः ) याः कर्मालिन्यः (पद्मिन्यः ), ताभि: लोहिनीभि: ( रक्तवर्णाभिः ) | मारोचेत्यादिः ० = कुछ दूर जाकर दिशा दिशामें सदा वासवाले फूल और फलोंसे युक्त, पर्याप्त ताड़, तिन्तक, तापिच्छ हिन्ताल और मौलसिरीके पेड़ोंसे सम्पन्न, इलायचीके लताओंसे व्याप्त नारियलके पेड़ोंवाले, चन्चल, लोभ, लवली और लवङ्गके पल्लवसे युक्त, शोभित आमकी मञ्जरीके परागोंवाले, भौरोंके झङ्कारसे शब्दायमान सहकारोंसे युक्त, मदवाले, कोयर्लोके कोलाहल से सम्पन्न, विकसित केतकी ( केवड़ा) के परागोंसे पीले, जिनमें सुपारीकी लतारूप झूले में वनदेवताएँ आरूढ थीं, ताराओंकी वृष्टिके समान अधर्मनाशके सूचक, हवासे हिलते हुए अतिशय पुष्पसमूहको निरन्तर बिखेरते हुए, परस्पर सटे हुए वृक्षोंसे युक्त जङ्गलोंसे व्याप्त, निर्भय होकर चले हुए सैकड़ों कृष्णसार मृगों से रंग
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy