SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६ कादम्बरो असंयतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्बितदण्डः, सुप्तोऽपि प्रबुद्धः, सन्निहितनेत्रद्वयोऽपि परित्यक्तवामलोचनस्तदेव कमलसरः सिस्नासुरुपागमत् । ( प्रमवः ) येन सः, हारीतपक्षे-दृष्टो गङ्गाया अवतार: ( घट्टः ) येन सः । “घट्टस्तीर्थाऽवतार" इति कोषः । भ्रमरः = मधुकरः, इव, असकृत् = वारं वारम्, अनुभूतपुष्करवनवासः= अनुभूतः ( अनुभवविषयीकृतः) पुष्करवने ( कमलवने ) वासः (निवासः ) येन सः । हारीतपक्षे अनुभूतः पुष्करवने (पुष्करतीर्थजले अथवा पुष्करतीर्थतपोवने) वासो येन मः। “पयः कीलालममृतं जोवनं भुवनं वनम् ।" इत्यमरः । पुष्कररतीर्थमाहात्म्यं यथा महाभारते-"यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । तथव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥” इति । सर्वत्र पूर्णोपमाऽलङ्कारः । वनचरोऽपि - अरण्यचारी अपि, वने चरतीति "चरेष्ट" इति टप्रत्ययः । कृतमहालयप्रवेशः = कृतः (विहितः ) महालयेषु (विशालभवनेषु ) प्रवेशो येन स इति विरोधस्तत्परिहारस्तु-कृतो महालये (परमात्मनि) प्रवेश: (स्वस्वरूपनिवेशः ) येन सः। "महालयो विहारे स्यात् तीर्थं च परमात्मनि ।" इति मेदिनी। असंयतोऽपि = संयमरहितोऽपि, “त्रयमेकत्र संयमः" ( योगसूत्रम् ३-४) इत्यतो धारणा-ध्यान-समाधोनामेकत्र स्थितौ “संयम" इत्युच्यते । तेषां लक्षणानि च-"देशबन्धश्चित्तस्य धारणा" ( ३-१), "तत्र प्रत्ययकतानता ध्यानम्" ( ३-२), "तदेवाऽर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" ( ३-३ ) मोक्षार्थी = मुक्त्यर्थी । अत्र च तादृशसंयमाऽमावे कथं मोक्षार्थित्वमिति विरोधस्तत्परिहारस्तु-असंयतोऽपि = अबद्धोऽपि' वासनापार्शरिति शेषः । मोक्षार्थी = अपवर्गाऽभिलाषी, वासनापाशेरबद्धः श्रवणाऽदिपरायणत्वेन मुक्त्यभिलाषुक इति भावः । सामप्रयोगपरः = साम ( सान्त्वम् ) तस्य प्रयोगः ( अनुष्ठानम् ) तस्मिन् परः ( उद्युक्तः ) अपि, सतताऽवलम्बितदण्डः = सततम् ( निरन्तरं यथा तथा ) अवलम्बितः (आश्रितः ) दण्डः ( दमः = उपायेषु चतुर्थः ) येन सः, अत्र सामदण्डावुपायो मिथोविरुद्धावतस्तयोः कथमेकत्राऽवस्थितिरिति विरोधस्तत्परिहारस्तु सामप्रयोगपर: सामवेदाऽनुष्ठानपरः, सतताऽवलम्बितदण्डः = सततं यथा तथा अवलम्बित: ( गृहीतः ) दण्ड: ( पालाशलगुडः ) येन सः । सुप्तोऽपि = निद्राणोऽपि, प्रबुद्धः= जागरितः, अत्र विरोधः, परिहारस्तु सुप्तः, प्रबुद्धः=प्रकृष्टज्ञानसम्पन्नः । भानुचन्द्रस्तु-सूप्तः= शोभना ता ( जटा ) यस्य सः । "प्ता जटायां च राक्षस्याम्" इति हैमः । सन्निहितनेत्रद्वयः = सन्निहितं ( संस्थापितम् ) नेत्रद्वयं ( लोचनद्वितयम् ) यस्य सः, तादृशोऽपि, परित्यक्तवामलोचन:=परित्यक्तं (परिवजितम् ) वाम ( दक्षिणेतरत् ) लोचनं ( नेत्रम् ) येन सः । अत्र विरोधस्तत्परिहारस्तु–परित्यक्ता वामलोचना ( कामिनी) येन सः, “विशेषास्त्वङ्गना भीरु: कामिनी वामलोचना।" इत्यमरः । अत्र सामान्यपदे प्रयोक्तव्ये विशेषपदोपादानात्सामान्यपरिवृत्तिर्दोषः, परं विरोधाभासे दोषाङ्कशत्वेन दोषाऽभावः । एवमुपवणितो हारीतो नाम मुनिकुमारकः, तदेव = पूर्वोक्तमेव कमलसरः = पद्मप्रचुरकासारं, पम्पासर इति भावः । सिस्नासुः स्नातुमिच्छुः सन्, सन्नन्तात् "ष्णा शौचे" इति धातोरुप्रत्ययः उपागमत् = समीपं गतः । वनचर होकर भी महान् आलयमें प्रवेश किये हुए (विरोध )। विरोधपरिहार-महालय (परमात्मा ) में स्वस्वरूपका निवेश करनेवाले, संयम ( धारणा, ध्यान और समाधि ) के न रहने पर भी मोक्षकी इच्छा करनेवाले (विरोध) वि०प०-वासनाके पाशसे बद्ध न होकर मोक्षकी इच्छा रखनेवाले। साम ( मेल ) के प्रयोगमें तत्पर होकर भी निरन्तर दण्ड (विग्रह ) का अवलम्बन करनेवाले (विरोध )। वि० प०-साम (सामवेद ) के प्रयोग ( अनुष्ठान ) में तत्पर और निरन्तर पलाशके दण्डका अवलम्बन करनेवाले सुप्त ( सोते हुए ) भी प्रबुद्ध (जागरित), (विरोध)। वि०प०-प्रबुद्ध (प्रकृष्ट शानसे सम्पन्न ) अथवा सुप्त ( सुन्दर ता = जटासे युक्त)। दोनों नेत्रोंके निकटस्थित होनेपर भी बाएँ नेत्रका परित्याग करनेवाले (विरोध), वि०प०-वामलोचना (कामिनी) का परित्याग करनेवाले। ऐसे मुनिकुमार हारीत उसी कमलके तालाबमें स्नानकी इच्छा करते हुए बाये।
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy