SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०८ कादम्बरी भयचकितया दृशा दिशोऽवलोक्य तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुमूलात् सलिल-समीपं सतुं प्रयत्नमकरवम् । अजातपक्षतया नातिस्थिरतर-चरण-सञ्चारस्य मुहुर्मुहुर्मुखेन पततो मुहुस्तिर्यनिपतन्तमात्मानमेकया पक्षपाल्या सन्धारयतः क्षितितलसंसर्पण-भ्रमातुरस्य अनभ्यासवशादेकमपि दत्त्वा पदमनवरतमुनमुखस्य, स्थूलस्थूलं श्वसतो धूलिधूसरस्य संसर्पतो ममाभून्मनसिअतिकष्टास्ववस्थास्वपि जीवित-निरपेक्षा न भवन्ति खलु जगति प्राणिनां प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । एवमुपरतेऽपि सुगृहीतनाम्नि ताते यदहमवि( ग्रीवा ) येन सः । मयचकितया = भयात् ( भीतेः ) चकितया ( त्रस्तया), दृशा = दृष्टया, दिश:काष्ठाः, अवलोक्य = दृष्टा, तणेऽपि =अर्जुनेऽपि. "तणमर्जुनम्" इत्यमरः । चलति = कम्पमाने सति, पुनः - भूयः, प्रतिनिवृत्त:=प्रत्यायातः स वृद्धशबर इति शेषः । इति एवं विमृश्य, पदे पदेप्रतिपदं, तम् एव = पूर्वोक्तम् एव, पापकारिणं = दुष्कृताचारं, वृद्धशबरमिति भावः । उत्प्रेक्षमाणः = संभावयन्, तस्मात् = पूर्वोक्तात्, तमालतरुमूलात् = तापिच्छवृक्षनिम्नभागात्, निष्क्रम्य = निर्गत्य, सलिलसमीपं = जलनिकटं, सतुं = गन्तुं, प्रयत्न = प्रयासम्, अकरवं = कृतवान् । अजातेति । मम मनसि समभूदिति सम्बन्धः । अजातपक्षतया-अनुत्पन्नच्छदत्वेन, नाऽतिस्थिरतरचरणसञ्चारस्य% नाऽतिस्थिरतरः (नाऽतिदृढतरः ) चरणसञ्चारः (पादन्यायः ) यस्य, तस्य । अत एव, मुहर्मुहुःवारं वारं, मुखेन = आननेन, पततः पतनं कुर्वतः। मुहुः = भूयोऽपि, तियंकतिरश्चीनं यथा तथा, निपतन्तं = भ्रश्यन्तं, तादृशम्, आत्मानं = स्वम्, एकया = केवलया, "एके मुख्याऽन्यकेवलाः" इत्यमरः । पक्षपाल्या= छदपङक्तया, "पालि: कर्णलताग्रेऽश्री पङ्क्तावकप्रभेदयोः ।" इति मेदिनी। संधारयतःपतनाद्रक्षां विदधतः, क्षितितलेत्यादि: =क्षितितले (भूतले) यत् संसर्पणं ( गमनम् ), तेन यो भ्रमः (भ्रान्तिः ) तेन आतुरस्य ( पीडितल्य ), अनभ्यासवशात् = अभ्यासाऽमाववशात्, एकम् अपि, पदं = चरणं, दत्त्वा =निवेश्य, अनवरतं = निरन्तरम्, उन्मुखस्यऊवंवदनस्य, श्रमादिति शेषः । स्थूलस्थलं = दीर्घ दीर्घ यथा तथा, श्वसतः = श्वासमोक्षं कुर्वतः, धूलिधूसरस्य = पांसुधूम्रवर्णस्य, संसर्पतः = संसर्पणं कुवंतः, मम, मनसि-चित्ते, समभूत् = एतादृशो वक्ष्यमाण प्रकारो विचारनिचयोऽजायत इति भावः । __तमेव प्रतिपादयति-अतिकष्टास्विति । जगति = लोके, प्राणिनां = जन्तूनां, प्रवृत्तयः = प्रवर्तनरूपाः क्रियाः, अतिकष्टासु = अतिशयकठिनासु, अवस्थासु = दशासु, अपि, जीवितनिरपेक्षा:जीविते ( जीवने ) निरपेक्षाः ( अपेक्षारहिताः, निःस्पृहा इति भावः ) न भवन्ति = नो विद्यन्ते । नास्तीति । इह = अस्मिन्, जगति = लोके । सर्वजन्तूनां = सकलप्राणिनां, जीवितात् = जीवनात्, मन्यत् = अपरम्, अभिमततरम् = अभीष्टतरम्, नाऽस्ति =नो विद्यते। उक्ताऽर्थमुपपादयतिएवमिति । एवं पूर्वोक्तप्रकारेण, सुगृहीतनाम्नि = प्रातःस्मरणीयनामधेये, “अथ यः प्रातः स्मयते शुभकाम्यया । स सुगृहीतनामा स्या" दिति त्रिकाण्डशेषः । ताते = पितरि, उपरतेऽपि = मृतेऽपि, दिशाओं को निहारकर पत्तेके चलनेपर भी वह ( पापी) फिर लौट आ गया इस प्रकार पग-पगमें संभावना करता हुआ मैं उस तमालके पेड़के अधोभागसे जलके समीप जानेका प्रयत्न करने लगा। पंखोंके न उगनेसे और पैरोंसे चलनेमें भी अति स्थिरता न होनेसे वारंवार मुंहसे गिरते हुए और वारंवार तिरछा गिरते हुए अपनेको एकमात्र पक्षपङ्क्ति सँभालता हुआ जमीनपर सरकनेसे भ्रमसे आकुल, अभ्यास न होनेसे एक पग चलकर भी लगातार ऊपर मुख किये हुए लम्बा-लम्बा श्वास लेते हुऐ और धूलसे धूसर और सरकते हुए मेरे मनमें ऐसा विचार हुआ-"अत्यन्त कष्टपूर्ण अवस्थाओंमें लोकमें प्राणियोंकी चेष्टाएँ जीवनमें निरपेक्ष (परबाह न करनेवाली) नहीं होती है। लोकमें समस्त जन्तुओंको जीवनसे अधिक अभीष्ट कुछ भी नहीं होता है। इस प्रकार प्रातःस्मरणके योग्य पिताके मरने
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy