SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०० कादम्बरी राज्यं शून्यास्वटवीषु, आपानकमुत्सवः, मित्राणि क्रूरकर्मसाधनानि धनूंषि, सहाया विषदिग्धमुखा भुजङ्गा इव सायकाः, गीतमुत्साहकारि मुग्धमृगाणाम्, कलत्राणि बन्दी-गृहीताः परयोषितः, क्रूरात्मभिः शार्दूलैः सह संवासः, पशुरुधिरेण देवतार्चनम्, मांसेन बलिकर्म, चौर्येण जीवनम्, भूषणानि भुजङ्गमणयः, वनकरि-मदरङ्गरागः, यस्मिन्नेव कानने निवसन्ति, तदेवोत्खातमूलमशेषतः कुर्वते। इति चिन्तयत्येव मयि स शबर-सेनापतिरटवीभ्रमण-समुद्भवं श्रममपनिनीषुरागत्य तस्यैव शाल्मलीतरोरधश्छायायामवतारित-कोदण्डस्त्वरितपरिजनोपनीत-पल्लवासने समुपाविशत् । दिति भावः । “महेन्द्रगुग्गुलूकव्यालमाहिषु कौशिकाः" इत्यमरः । प्रज्ञा = विवेकबुद्धिः, शकुनिज्ञानं = पक्षिनिरूपणम् । श्वान: - कुक्कुराः, परिचिताः = संस्तुताः, विश्वासपात्राणीति भावः । शून्यासु = जनरहितासु, अटवीषु = वनभूमिषु, राज्यं = स्वामित्वम् । आपानकं = संभूय मद्यपानम्, उत्सवः= प्रमोदः । मित्राणि - सुहृदः, क्रूरकर्मसाधनानि = वधादिधातुककृत्योपकरणानि, धनंषि = कामकाणि । सहाया: = साहाय्यकारकाः, भुजङ्गा इव= सर्पा इव, विषदिग्धमुखाः = विषदिग्धं (गरललिप्तम् ) मुखम् ( आननम्, पक्षे अग्रमागः) येषां ते, तादृशाः सायकाः = बाणाः, "शरे खड्गे च सायकः" इत्यमरः । मुग्ध मृगाणां= मुग्धाः ( मूढाः ) ये मृगाः ( हरिणाः ), तेषाम् । उत्साहकारि= उत्साह (श्रवणोत्साहम् ) करोतीति तच्छोलं, माधुर्यातिशयादिति भावः । "उत्सादकारी"ति पाठान्तरं तस्य विनाशकारीत्यर्थः । गीतं = गानम् । गीतेनाकृष्टास्तेमृगाः स्तब्धाः सन्तः मृगयूणां लक्ष्यतां गच्छन्तीति भावः । "मुग्धः सुन्दरमूढयोः" इत्यमरः । कलत्राणि = मार्याः, बन्दीगृहीताः=बन्धः ( हठात् हृताः ) गृहीताः ( स्वीकृताः ), परयोषितः = अन्यस्त्रियः । क्रूरात्मभिः = क्रूरः ( घातुकः ) आत्मा ( स्वमावः ) येषां, तैः, "नृशंसे घातुक: क्रूरः" इति "आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म चे"त्यमरः । शार्दूल:= व्याघ्रः, सह = समं, संवासः = सहाऽवस्थितिः । पशुरुधिरेण = पशूनां ( महिषादीनाम् ) रुधिरेण ( रक्तन ), देवताऽर्चनं =सुरपूजनम् । मांसेन = पिशितेन, बलिकम = उपहारकृत्यं, यक्षभूताद्यर्थमिति शेषः । "करोपहारयोः पुंसि बलि:, प्राण्यङ्गजे स्त्रियाम्" इत्यमरः । चौर्येण = परद्रव्याऽपहारेण, जीवनं = प्राणधारणम् । भूषणानि = अलङ्काराः, भुजङ्गमणयः= सर्परत्नानि । वनकरिमदैः = वनकरिणाम् ( अरण्यगजानाम् ) मदः ( दानजल: ), अङ्गरागः = देहावयवविलेपनम् । यस्मिन्निति । यस्मिन् एव, कानने वने, निवसन्ति निवासं कुर्वन्ति, तदेव-तत्काननम् एव । अशेषतः = समग्रतः, उत्खातमूलम् = उत्पाटितमूलं, कुर्वते = विदधति । इतीति । इति = पूर्वोक्तप्रकारेण, मयि, चिन्तयति = ध्यायति, एव, शबरसेनापतिः = शबरचमूनायकः, अटवीभ्रमणसमुद्भवम् = अटव्यां (वने ) भ्रमणम् (इतस्ततः संचरणम् ) तत्समुद्भवं ( तदुत्पन्नम् ) श्रमम् ( परिश्रमम् ) अपनिनीषुः = अपनेतुम् ( निवारयितुम् ) इच्छु: ( अमिलाषुकः ) सन्, “सनाशंसभिक्ष उः" इत्युप्रत्ययः । तस्यैव = पूर्वोक्तस्यैव, शाल्मलीतरोः = शाल्मलीवृक्षस्य, अधः वाले उल्लू हैं, चिड़ियोंका ज्ञान विवेक बुद्धि है, कुत्ते परिचित हैं, शून्य जङ्गलोंमें राज्य है, मित्रोंके साथ मय पीना उत्सव है, कर कर्मके साधन धनुष मित्र हैं, विषलिप्त मुखवाले सोके समान नोकमें विषवाले वाण सहाय हैं, ज्ञानहीन मृगोंको सुननेमें उत्साह करनेवाला गाना है, अपहृत परस्त्रियाँ इनकी भार्याएं हैं, कर स्वभाववाले व्याघोंसे इनका सहवास है, पशुओंके रक्तसे देवताओंकी पूजा है, ये मांससे यक्षभूत आदिको उपहार देते हैं, चोरीसे इनका जीवन है। सर्पको मणियां अलङ्कार है। ये जङ्गली हाथियोंके मदसे अङ्गका लेप करते हैं, जिस जङ्गलमें रहते हैं उसीको सब तरहसे निर्मूल करते हैं, इस प्रकार मैं चिन्ता कर ही रहा था शबर सेनापति जङ्गलमें धूमनेसे उत्पन्न थकावटको मिटानेको इच्छासे आकर उसी सेमलके पेड़के नीचे छायामें धनुषको उतारकर
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy