SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कथामुखे—शबरमृगयावर्णनम् ८५ कदम्बकम् इतो वनगजकुलम्, इतो वनवराहयूथम्, इतो वनमहिषवृन्दम्, इतः शिखण्डि - मण्डल-विरुतम्, इतः कपिञ्जल - कुल-कलकूजितम्, इतः कुररकुल-क्वणितम्, इतो मृगपतिनखभिद्यमान- कुम्भ- कुञ्जर-रसितम्, इयमार्द्र- पङ्कमलिना वराहपद्धतिः, इयमभिनव - शष्पकवल-रसश्यामला हरिण - रोमन्थ- फेन-संहतिः, इयमुन्मद - गन्धगजगण्ड- कण्डूयन-परिमलनिलीन-मुखरमधुकर-विरुतिः, एषा निपतितरुधिरबिन्दु सिक्त - शुष्कपत्त्र-पाटला रुरुपदवी, एतद्विरद-चरण- मृदित यानि शुष्कपत्त्राणि ( नीरसपलाशानि ) तेषां मर्मरध्वनि: ( मर्मरशब्दः ), इतः, वनमहिषेत्यादिः ० = वनमहिषाणां ( विपिनसैरिभाणाम् ) विषाणकोटय: ( शृङ्गाऽग्राणि ) कुलिशानि ( वज्राणि ) इव, तैः भिद्यमानं ( विदार्यमाणम् ) यत् वल्मीकं ( वामलूरः, कोटराशीकृतमृत्तिकापुञ्जो वा) तस्य धूलि : ( रज: ), इतः, मृगकदम्बकं = हरिणयूथम् । इत:, वनगजकुलं = वनगजानाम्, ( अरण्यहस्तिनाम् ) कुलम् ( सजातीय समूहः ) । इतः, वनवराहयूथं = वनवराहाणाम् ( आरण्यकशूकराणाम् ) यूथम् (वृन्दम् ) । इतः, वनमहिषवृन्दं वनमहिषाणाम् ( आरण्यकसैरिभाणाम् ) वृन्दम् ( समुदाय : ) । इतः, शिखण्डिमण्डलविरुतं = शिखण्डिमण्डलस्य ( मयूरसमूहस्य ) विरुतम् ( शब्द: ) । इतः कपिञ्जलकुलकलकूजितं = कपिञ्जलानां ( गौरतित्तिरोणां चातकानां वा ) यत् कुलं ( सजातीयसमूहः ), तस्य, कलकूजितम् ( मधुररुतम् ) । इतः कुररकुल क्वणितम् = कुररकुलस्य ( उत्क्रोशपक्षिसमूहस्य ) क्वणितम् ( वाशितम् ), "उत्क्रोशकुररौ समौ" इत्यमरः । इतः, मृगपतीत्यादिः = मृगपतीनां (सिहानाम् ) नखा: ( नखरा : ) तैः, भिद्यमाना: ( विदार्यमाणाः ) कुम्भा: ( मस्तक - पिण्डाः ) येषां तेषां कुञ्जराणां ( हस्तिनाम् ) रसितम् ( आक्रन्दितम् ) । इयम् = एषा, आर्द्रपङ्कमलिना = आर्द्र : ( क्लिन्न: ) यः पङ्कः ( कर्दम: ), तेन मलिना ( मलीमसा ), वराहपद्धति:: अरण्यशूकरमार्गः । इयम्, अभिनवेत्यादिः ० = अभिनवानि ( अचिरोत्पन्नानि ) यानि शष्पाणि ( बालतृणानि ) तेषां कवल: ( ग्रासः ) तस्य रसः ( द्रवः ) तेन श्यामला ( कृष्णवर्णा ), हरिण - रोमन्थफेनसंहतिः=हरिणानां ( मृगाणाम् ) यो रोमन्थः ( चर्वितचर्वणम् तस्य फेनसंहतिः ( डिण्डीरसमूहः ) । इयम्, उन्मदेत्यादिः ० = गन्धप्रधानो गजो गन्धगजः, "शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योपसंख्यानम्” इति मध्यमपदलोपी समासः । गन्धगजलक्षणं पालकाप्ये यथा = " यस्य गन्धं समाघ्राय न तिष्ठन्ति प्रतिद्विपाः । तं गन्धहस्तिनं प्राहुर्नृपतेर्विजयावहम् ॥” इति । = उन्मदाः ( उत्कटमदाः ) ये गन्धगजाः ( गन्धयुक्तहस्तिनः), तेषां गण्डकण्डूयनेन ( करटकण्ड़्त्या ) य: परिमल: ( विमर्दोत्थ आमोदः ) तस्मिन् निलीना: ( अवस्थिताः ) मुखरा: ( शब्दायमानाः ) मधुकरा: ( भ्रमराः), तेषां विरुति: ( झङ्कार: ) । एषा निपतितेत्यादिः ० = निपतिता: ( भुवि त्रस्ता : ) ये रुषिरबिन्दवः ( रक्तपृषताः ) तैः सिक्तानि ( उक्षितानि ) यानि शुष्कपत्त्राणि ( नीरसपलाशानि ) तै: पाटला ( श्वेतरक्ता ), रुरुपदवी = रुरूणां ( मृगविशेषाणाम् ) पदवी ( मार्ग : ) । एतत् समीपतरवत, द्विरदेत्यादि : ० = द्विरदानां ( हस्तिनाम् ), चरणै: ( पादैः ) मृदितं ( संचूर्णितम् ) गिरे गये सूखे पत्तोंकी मर्मर ध्वनि हो रही है । यहाँ जङ्गली भैसांके सींगोकी नोकों रूपी वज्रोंसे भेदी जाती हुई वल्मीक ( मिट्टीके ढेर ) की धूल है, यहाँ मृगोंका झुण्ड है, यहाँ जङ्गली हाथियों का गिरोह है । यहाँ जङ्गली सूअरोंका झुण्ड है, यहाँ जङ्गली भैंसोंका झुण्ड है, यहाँ मयूरसमूहकी आवाज हो रही है, यहाँ चातकोंके झुण्डका मनोहर कूजित है, यहाँ कुरर पक्षियोंके झुण्डकी ध्वनि हो रही है, यहाँ सिंहके नाखूनसे कुम्भ ( मस्तकपिण्ड ) के भेदे जानेसे हाँथीका चीत्कार शब्द है, यहाँ गीली कीचड़से मलिन सूअरका मार्ग है, यह नई घासको कौरके रससे सांवला मृगोंकी जुगालीका फेनसमूह है, यह उत्कट मदवाले गन्धप्रधान हाँथियोंके गण्डस्थलमें खुजलाने से हुए सुगन्धमें लीन शोर करनेवाले भौंरोंका झङ्कार है । यह गिरे हुए रुधिर विन्दुओंसे सींचे गये सूखे पत्तोंसे गुलाबी रुरु
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy