SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] तत्रापि मुनयः प्राहुर्भावनायाः प्रधानताम् । तयैवानुगृहीतं हि त्रितयं तत् फलेग्रहि ॥ ३८ ॥ [ राजव्यापारस्य साफल्यम् ] पावनी नावनीनाथ !, व्यापारकलुषे हृदि । आस्माकीये वसत्युच्चैर्भावना भगवन्नसौ ॥३९॥ इत्युक्ते मन्त्रिणाऽवोचन्, गुरवो गौरवोचितम् । मन्त्रिन् ! नृपस्य व्यापारः किमर्थं दूष्यते त्वया ? ॥४०॥ युग्मम् ॥ यदयं तुच्छचित्तानामज्ञानां क्रूरकर्मणाम् । परदार- परद्रोह - परपीडापरात्मनाम् ॥४१॥ तादात्विकसुखास्वादसादरीकृतचेतसाम् । नरकालोकनेऽन्धानां, बधिराणां हितश्रुतौ ॥४२॥ जायते क्षुद्रसत्त्वानामयशःपङ्कपातिनाम् । ऐहिकामुष्मिकानर्थसम्बन्धैकनिबन्धनम् ॥४३॥ विशेषकम् ॥ ये पुनः पुन्यकर्माणो, महेच्छा स्वच्छबुद्धयः । परोपकारव्यापारसफलीकृतजीविताः ॥४४॥ गुरूपदेशपीयूषपूरपावितमानसाः । वैभवे च भवे चास्मिन् भङ्गुरीभावभाविनः ॥४५॥ शुचौ यशसि धर्मे च, स्थैर्यबुद्धिविधायिनः । विनिर्जितारिषड्वर्गाः, स्वयमायतिदर्शिनः ॥४६॥ भवत्यद्भुतसत्त्वानां तेषां लोकोत्तरात्मनाम् । नृपव्यापारा एवायमिहामुत्र च सिद्धये ॥४७॥ कलापकम् ॥ " [ प्रभावना ] येन लोकोत्तरः कोऽपि, धर्मस्तीर्थेशदेशितः । स्वर्गापवर्गसाम्राज्यश्रीस्वयंवरमण्डपः ॥४८॥ सुदुष्करतरः कामं, महासत्त्वतरैर्नरैः । किमन्यत् ? तीर्थकृल्लक्ष्मीकारणानां शिरोमणिः ॥४९॥ १. किमित्थं दू° खंता० पाता० ॥ २ ° षपुण्यपा° खंता० ॥ D:\maha-k.pm5\ 2nd proof [७ 5 10 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy