SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः ] गत्वाऽथ ज्ञानिनिःसीमं, सीमन्धरजिनेश्वरम् । प्रणम्य नारदोऽपृच्छत्, कृष्णसूनुगतिप्रथाम् ॥६१॥ अथाऽऽख्यत् तीर्थकृद् धूमकेतोः प्राग्वैरचेष्टितम् । विद्याधरगृहे वर्द्धमानं च हरिनन्दनम् ॥६२॥ [ ३४१ पृच्छते नारदायाथ, तस्य प्राग्वैरकारणम् । स्वामी सीमन्धरस्तत्र, सर्वमित्थमचीकथत् ॥६३॥ [ प्रद्युम्नस्य पूर्वभवचरितम् ] अस्ति हस्तिपुरं जम्बूद्वीपे धरणिभूषणम् । विष्वक्सेनोऽत्र भूपोऽभूद्, विष्वक्सेनोद्धृताहितः ॥६४॥ मधु-कैटभनामानौ, तस्याभूतामुभौ सुतौ । भेजे राजा व्रतं राज-युवराजौ विधाय तौ ॥६५॥ छलात् पल्लीपतिर्भीमस्तयोर्देशमुपाद्रवत् । तं हन्तुमथ भूपालश्चचालाचलविक्रमः ॥६६॥ मार्गे वटपुरेन्द्रेण, कनकप्रभभूभुजा । मधुर्भोजन-वस्त्रादिदानैः सानन्दमर्चितः ॥६७॥ तत्रासौ वीक्ष्य चन्द्राभां, कनकप्रभवल्लभाम् । चेतस्तत्रैव मुक्त्वाऽगाद्, भीमं पल्लीपतिं प्रति ॥६८॥ मधुः पल्लीपतिं हत्वा कण्ठीरव इव द्विपम् । चलितः पुनरामन्त्रि, कनकप्रभभूभुजा ॥६९॥ अथाऽयच्छति चन्द्राभां, याञ्चया कनकप्रभे । बलात्कारेण तां निन्ये, मधुमधुसखातुरः ॥७०॥ चन्द्राभाविरहाद् भेजे वैकल्यं कनकप्रभः । मधुस्तु हस्तिनपुरं प्राप्य रेमे समं तया ॥ ७१ ॥ उत्सूरागतिमन्येद्युः, पृष्टश्चन्द्राभया मधुः । पारदारिकवादेन, स्थितोऽस्मीदमवोचत || ७२ ॥ १. ', तदा सर्वमची पाता० । 'त्र, सर्वमेवम खंता० ॥ २. भीमप खंता० ॥ D:\maha-k.pm5 \ 2nd proof 5 10 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy