SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ [२८१ एकादशः सर्गः] क्रमादथ पुरं प्राप, निषधः क्षमापकुञ्जरः । चलच्चेलाञ्चलोल्लासैः, प्रणतितभुजामिव ॥३४२॥ निधायाथ नलं राज्ये, यौवराज्ये च कूबरम् । आत्मानं शमसाम्राज्ये, न्यधत्त निषधाधिपः ॥३४३।। पयोधिपरिखामुर्वीमपालयदथो नलः । निरन्तरचतुर्वर्णावासकीर्णां पुरीमिव ॥३४४।। महीभृवंशसन्दोहपरिदाहपटीयसः । तेजसा नान्तरं दावानलस्य च नलस्य च ॥३४५।। कूबरस्तं छलान्वेषी, बन्धुतावत्सलं नलम् । दुरोदरविनोदेषु , चिक्षेप क्रूरमानसः ॥३४६।। दवदन्त्या च मित्रैश्च, द्यूतव्यसनतस्तदा । विरराम निषिद्धोऽपि, नैषधिर्नैष धिग् ! विधिम् ॥३४७।। कूबरेण सह क्रीडन् , मोहध्वान्ताकुलो नलः । अहारयत् तदा राज्यं, सान्तःपुर-परिच्छदम् ॥३४८॥ निकृतः कूबरेणाथ, क्ष्मानाथः क्रूरचेतसा । गात्रमात्रपरीवारोऽचलद्देशान्तरं प्रति ॥३४९।। नलानुगामिनीं भैमी, कूबरः प्राह साहसी । हारिता यन्नलेनासि, न त्वं तद् गन्तुमर्हसि ॥३५०॥ अथेदं स वदन्नुक्तः, पौरैः क्रूर ! करोषि किम् ? । जननीमिव मन्यन्ते, भ्रातृजायां हि साधवः ॥३५१॥ जननीति न चेन्नीतिस्तवैतां प्रति सम्प्रति । तदस्याः पाप ! शापेन, भृशं भवसि भस्मसात् ॥३५२।। इत्ययं भाषितः पौरैः, शिक्षितश्च नलानुजः । रथमारोप्य वैदर्भी, न्ययुङ्क्तानुनलं तदा ॥३५३॥ अथ त्यक्तरथः कान्तायुक्तो निषधनन्दनः । चचार चरणापातपवित्रितधरातलः ॥३५४।। १. °षधक्षमापनन्दनः खंता० ॥ २. चाल च° खंता० पाता० ॥ 20 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy