SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः] [२६९ हंसोऽप्याह मुदे वार्ता, मुधाकृतसुधारसा । प्रविशन्ती श्रुतौ देवि !, श्रूयतां सावधानया ॥१८८।। एकदाऽस्मि गतो देवि !, कोशलायां पुरि भ्रमन् । दूराददर्शि तत् तेजो, मया जितरविच्छवि ॥१८९।। किमेतदिति सम्भ्रान्तो, यावद् द्रष्टुमधोऽपतम् । तावदग्रे नर: कान्तिपूरिताम्बरगह्वरः ॥१९०।। सुता च खेचरस्यैक्षि, कोशलस्य सुकोशला । अतिरूपयुताऽप्येषा, दीनश्रीस्तस्य सन्निधौ ॥१९१॥ युग्मम् ॥ तन्मयाऽचिन्ति सत्यस्मिन्ननङ्गो न मनोभवः । अनङ्गा तु रतिदृश्या, यदस्य न समीपगा ॥१९२॥ धन्येयं मेदिनी यस्यां, वीरोऽयं मुकुटायते । असावपूर्णपुण्यस्तु , स्त्रीरत्नं यत्र नाहितम् ॥१९३।। अनुरूपप्रियाहीनमेनमालोकयन् मुहुः । शोचन् निर्माणमेतस्य, गगनाङ्गणमभ्यगाम् ॥१९४।। ध्यायतस्तदिदानी मे, हृदि तज्जन्म निष्फलम् । सद्यः सफलतां नीतं, देवि ! त्वदर्शनामृतैः ॥१९५।। जाने यदि समीपेऽस्य, पश्यामि भवतीमहम् । मन्दारपादपस्यान्ते, कल्पवल्लीमिवोद्गताम् ॥१९६।। ६६ इत्याकर्ण्य मरालं सा, जगाद मदनातुरा । दशनद्युतिदुग्धेन, स्नपयन्ती मुहुर्मुहुः ॥१९७।। अमार्गेणैव कर्णेन, मन:सद्मनि मेऽविशत् । दृशा घण्टापथेनैव, कदाऽसौ सञ्चरिष्यते ? ॥१९८।। वार्तायामसमाप्तायामित्युड्डीय सितच्छदः ।। सहसैवोन्मुखस्तस्या, दृशा सह खमुद्ययौ ॥१९९॥ अदृश्येऽथ मरालेऽस्मिन् , विललाप कुमारिका । आस्तां तद्दर्शनं तावत् , तत्कथाकथकोऽप्यगात् ॥२००।। १. °पथेनेव, पाता० ॥ २. °यामथोड्डी खंता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy