SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २५२] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वसुन्धराधुराधुर्य, राज्ये कृत्वाऽथ तं सुतम् । राजा गुणधराचार्यपादान्ते जगृहे व्रतम् ॥३३५।। वनीमिवावनीमेनां, सेचं सेचं नयाम्बुभिः । मालाकार इव मापः, स यशोभिरपुष्पयत् ॥३३६।। 88 अन्यदा केवलज्ञाननिधिविबुधसेवितः । श्रीषेणः क्षीणदुष्कर्मा, प्राप्तस्तस्याः पुरः पुरः ॥३३७।। परीवारपरीतोऽयमथ शङ्खः क्षमापतिः । मुनीन्द्रं पितरं नत्वा, देशनान्ते व्यजिज्ञपत् ॥३३८॥ स्वामिन् ! प्रेम्णा यशोमत्यामत्यासक्तिः कुतो मम ? । ऊचे मुनिरथानेकभवसम्बन्धितामिह ॥३३९॥ आगामिनि भवे भावी, नेमिनामा जिनो भवान् । मन्त्री च बान्धवौ चैतौ, गणेशास्तव भाविनः ॥३४०॥ इयं राजीमती भूत्वा, त्वदेकमयमानसा । अनूदैव व्रतं त्वत्तः, प्राप्य निर्वृतिमाप्स्यति ॥३४१।। निशम्येति मुनेर्वाचं, शङ्खः शङ्खोज्ज्वलाननः । कुमारं पुण्डरीकाख्यं, राज्ये व्यधित दुर्धरम् ॥३४२॥ ततः समं यशोमत्या, बन्धुभ्यां सचिवेन च । अवाप मापतिर्दीक्षां, वीक्षां मुक्तिस्त्रिया इव ॥३४३।। सोऽर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृत्कर्म निर्ममे । विधायाऽऽराधनां चान्ते, पादपोपगमं व्यधात् ॥३४४।। परीषहोपसर्गाद्यैः, स परैरपराजितः । अपराजितसज्ञेऽभूद् , विमाने भासुरः सुरः ॥३४५॥ 15 20 १. राधौर्यं पाता० ॥ २. °न्धवावेतौ खंता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy