SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः ] अथोत्थितः स वीरेण, काऽसौ ? कोऽसीति भाषितः । उद्बुद्धवदनाम्भोजमरन्दमधुरं वचः ॥१९४॥ ss आस्ते पुरश्रियां सीमा, पुरं श्रीरथनूपुरम् । तस्मिन्नमृतसेनाख्यः, क्षितिपः खेचरेश्वरः ॥१९५॥ अस्ति कीर्तिमती नाम, तस्य कीर्तिमती प्रिया । रत्नमालाऽभिधा बाला, रतिरूपा तयोरियम् ॥१९६॥ हरिणान्दिधराधीशतनुभूरपराजितः । अस्या भविष्यति पतिर्ज्ञानिनेति निवेदितम् ॥१९७॥ श्रीषेणनन्दनः शूरकान्तनामाऽस्मि खेचरः । लावण्यलहरीसिन्धुमेनां याचितवानहम् ॥१९८॥ अपराजित एव स्यात्, प्रियो मे हरिणन्दिभूः । प्रविशाम्यथवा वह्नि, चक्रे निश्चयमित्यसौ ॥ १९९॥ अपहृत्य ततः कोपादानीतेयं मया वने । भक्तिभिः शक्तिभिश्चापि चापलादर्थिता भृशम् ॥२००॥ पूरयिष्यामि ते वह्निप्रवेशनियमं ततः । इत्युक्त्वा कृष्टनिस्त्रिंशे, मयि वीर ! त्वमागतः ॥२०१|| वितन्वति कथामित्थं, तत्र विद्याधरे तदा । पितरौ रत्नमालायाः, पुत्रीमीक्षितुमागतौ ॥ २०२॥ मन्त्रिपुत्रगिरा ताभ्यां मत्वाऽयमपराजितः । रत्नमालां रतिमिव, प्रद्युम्नः परिणायितः ॥ २०३॥ विद्याधरः कुमाराय, व्रसंरोहणौषधीम् । चिन्तितार्थकरीं दत्त्वा, गुलिकां च क्वचिद् ययौ ॥२०४॥ [ २४१ §§ अथो यथागतं सर्वे, जग्मुस्तौ तु महाशयौ । चिरकालं वने भ्रान्तौ, दिवीन्दु - तपनाविव ॥२०५॥ कुमारः सहकारस्य, तलेऽथ तृषितः स्थितः । ययौ सचिवसूनुस्तु, वारिग्रहणहेतवे ॥२०६॥ १. अवदद् वदना° खंता० ॥ २. निदेशितम् खंता० ॥ ३. ° धरकुमारोऽथ, व्रण' खंता० ॥ D:\maha-k.pm5\ 2nd proof 5 10 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy