SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २३८] [सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पादपोपगमं कृत्वा, प्राप चित्रगतिः कृती । माहेन्द्रकल्पे देवत्वमृभुप्रभुनिभप्रभः ॥१५४॥ अस्ति प्रत्यग्विदेहेषु , देशः पद्माख्यया महान् । यत्र ग्रामाऽन्नराशीनां, शैलानामपि नान्तरम् ॥१५५।। पुरं सिंहपुरं तत्र, विद्यते विदितं भुवि । सौधाग्रस्त्रीमुखाब्जानां, योन्दुर्दासवत् पुरः ॥१५६॥ हरिणन्दीति तत्रासीदवनीपालपुङ्गवः । विभाति यत्प्रतापस्य, तप्तांशुः प्रतिहस्तकः ॥१५७।। से भेजे वल्लभामर्थिप्रियदः प्रियदर्शनाम् । यस्याः शस्यौ रति-प्रीत्योः, केलिशैलरुचौ कुचौ ॥१५८।। सोऽयं चित्रगतेर्जीवश्च्युत्वा माहेन्द्रकल्पतः । अपराजितनामाऽभूदुग्धामा तदङ्गजः ॥१५९।। सखा विमलबोधाख्यस्तस्याभवदमात्यभूः । सहचारी सदा भानोरिव रश्मिसमुच्चयः ॥१६०।। वाहाभ्यां वाहितावेतौ, बाह्यालीक्रमणेऽन्यदा । देशे दवीयसि गतावरण्ये पुण्यविक्रमौ ॥१६१।। तत्रावतीर्य तौ वीर्यविनिर्जितपुरन्दरौ । निन्यतुस्तोयतीरेषु , तृषार्तं तुरगद्वयम् ॥१६२॥ अथ श्लथीकृताबन्धौ, विपन्नौ तौ तुरङ्गमौ । देशान्तरविहारश्रीनेत्रे इव तदा तयोः ॥१६३।। अथ तत्र स्थितावेतौ, निराशौ गलितश्रियौ । कलुषौ कलिमाहात्म्यान्न्यायधर्माविवाङ्गिनौ ॥१६४।। अत्रान्तरे नरः कोऽपि, हन्ये हन्ये वदन्निदम् । प्रदत्ताभयदानेन कुमारेण स्थिरीकृतः ॥१६५।। स्थितो यावदसौ तत्र, तावदारक्षकाः क्षणात् । हत हतेति जल्पन्तोऽभ्याययुर्ययुवेगतः ॥१६६।। D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy