SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः] अत्रान्तरे स्फुरत्तोषैः, पेठे मङ्गलपाठकैः । प्रभाते भाषया पक्वरसालरससारया ॥ ११ ॥ अद्वितीयफलोद्भासिभास्वदुद्गमकारणम् । विभात्यभिनवश्चतद्रुरिवायं प्रगेक्षणः ॥१२॥ अथोत्थाय महीनाथवल्लभा विकसन्मुखी । राज्ञे विज्ञपयामास, स्वप्नवृत्तान्तमद्भुतम् ॥१३॥ नृपोऽप्यूचे सुतो भावी, भवत्याः कश्चिदुत्तमः । न जानीमस्तु यत्तस्य, वारानारोपणं नव ॥ १४ ॥ अथ गर्भं बभारैषा, निर्भरानन्दशालिनी । शस्यदोहदसन्दोहसूचिताद्भुतलक्षणम् ॥१५॥ वासरेष्वथ पूर्णेषु, पूर्णेन्दुमिव सुन्दरम् । असूतासौ सुतं पूर्णमासीवासीमतेजसम् ॥१६॥ दशाहानन्तरं तस्य, सुतस्य जगतीपतिः । आनन्दवर्द्धितोत्साहो, धन इत्यभिधां व्यधात् ॥१७॥ वर्द्धमानवपुर्लक्ष्मीर्नूतनेन्दुरिव क्रमात् । सकलाः स कलाः प्राप, स्पष्टदृष्टाष्टधीगुणः ॥१८॥ असौ भाग्योद्यतश्रीकः, सौभाग्यरुचिरद्युतिः । अद्वितीयकलाशाली, द्वितीयमभजद् वयः ॥ १९॥ यौवराज्याभिषेकेऽथ, निर्वृत्ते नृपनन्दनः । नानाविधाभिः क्रीडाभिश्चिक्रीड सुखलालसः ॥२०॥ §§ सवयोभिर्महामात्यपुत्रैर्मित्रैः समन्वितम् । धनं वनगतं कश्चिदेवमेत्य व्यजिज्ञपत् ॥२१॥ आज्ञापितोऽस्मि देवेन, यद् दूतं सिंहभूभुजः । मेलयामुं कुमारस्य, मान्यमस्य च वाचिकम् ॥२२॥ उद्यानस्य बहिः सोऽयं, विद्यतेऽद्यापि सुप्रभो ! | समादिश समायातु, यातु वा साम्प्रतं किमु ? ||२३|| १. ° गुणाः खंता० । २. मेवं व्य° खंता० ॥ D:\maha-k.pm5 \ 2nd proof [ २२७ 5 10 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy