SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः] [२२५ तथा मनोरथारामसफलीकारकारणम् । धर्ममाराधयामास, मनो-वचन-कर्मभिः ॥२२८॥ मणिचूडनृपेणापि, स्वयं दीक्षां जिघृक्षुणा । युगवाहुनृपश्चक्रे, सर्वविद्याधरेश्वरः ॥२२९॥ इति जन्मान्तरोपात्ततप:सम्भूतवैभवः । आराधयदिदं राज्यद्वयं लोकद्वयं च सः ॥२३०।। इति नृपयुगबाहोः सच्चरित्रं पवित्रं, तव सचिवशचीश ! स्पष्टमेतत् प्रदिष्टम् । सततमपि निषेव्यं सिद्धिकामैः प्रकामं. निरुपमसुखलक्ष्मीकेलिदीपस्तपस्तत् ॥२३१॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यङ्के महाकाव्ये तपःप्रभावोप युगबाहुचरितं वर्णनो नाम नवमः सर्गः समाप्तः ॥ मुष्णाति प्रसभं वसु द्विजपतेर्गौरीगुरुं लङ्घयन् , नो धत्ते परलोकतो भयमहो ! हंसापलापे कृती । उच्चैरास्तिकचक्रवालमुकुट ! श्रीवस्तुपाल ! स्वयं, भेजे नास्तिकतामयं तव यश:पूर कुतस्त्यामिति ? ॥१॥ आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, स्थानस्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः ? । अस्मिन् विस्मयनीयबुद्धिजलधिर्विध्वस्य दस्यून् करे, कुर्वन् पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः पुरम् ॥२॥ ॥ ग्रन्थाग्रम् २४७ ॥ उभयम् २७९३॥ 15 20 . . १. °मेवोपदि खंता० ॥ २. °रितनामा नव पाता० ॥ ३. पतेर्गोरी खंता० पाता० ।। ४. °ल! स्फुटां, भेजे खंता० पाता० ॥ ५. °लधेवि पाता० ।। ६. ध्वस्तद वता० ॥७. °निधेधिनो' पाता० ।। ८. सर्गग्रन्था खंता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy