SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २१८] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् महात्मन् ! पूर्वदुष्कर्मनिर्मूलनसमीहया । युज्यते तपसाऽऽराद्धं , ततस्ते ज्ञानपञ्चमी ॥१३७॥ तावज्जाड्यज्वरोद्गारैर्जीयन्ते हन्त ! जन्तवः । यावन्नाविर्भवत्युच्चैस्तपस्तपनवैभवम् ॥१३८॥ येषां तपःकुठारोऽयं, कठोरः स्फुरति स्फुटम् । मूलादुच्छेदमायान्ति, तेषां दुष्कर्मवीरुधः ॥१३९॥ भावेनाराधितो येन, तपोधर्मोऽतिनिर्मलः । एतेनाराधितौ दान-शीलधर्मावपि ध्रुवम् ॥१४०॥ सम्पन्नानन्यसामान्यतपःसन्दोहदोहदः । वितनोति फलस्फाति, मनोरथमहीरुहः ॥१४१॥ तत् ते क्षीणान्तरायस्य, पञ्चमीतपसाऽमुना । मनोरथतरुः सर्वं, वाञ्छितार्थ फलिष्यति" ॥१४२॥ इत्युक्तो मुनिना तेन, सैष निष्पुण्यपूरुषः । निवृत्य मृत्योरागत्य गृहं चक्रे तपोऽद्भुतम् ॥१४३|| स पूजनं जिनेशस्य, प्रथयन् विभवोचितम् ।। वरिवस्यन् गुरूंश्चापि, निन्ये जन्म कृतार्थताम् ॥१४४।। अथायं परिपूर्णायुः, संजज्ञे नृपतेः सुतः । युगबाहुरिति ख्यातः, स त्वं सत्त्वनिकेतनम् ॥१४५।। तत् त्वया तोषिताऽस्म्युच्चैधर्ममाराध्यता पुरा । निःशङ्कितमतो ब्रूहि, वत्स ! वाञ्छितमात्मनः ॥१४६।। IF देव्या प्रसादादित्युक्ते, शस्त्रे शास्त्रे च कौशलम् । लोकोत्तरं मयाऽयाचि, प्रतिपन्नं तया च तत् ॥१४७।। प्रतिपक्षप्रतिक्षेपक्षममेकं परं पुनः । महामन्त्रं ददौ देवी, कलाकोशलदायिनम् ॥१४८।। यावद् गृहीतमन्त्रोऽहं, नमामि परमेश्वरीम् । अपश्यं तावदात्मानं नदीपुलिनगामिनम् ॥१४९।। 20 25 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy