SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 १८६] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् असावगर्ह्यगार्हस्थ्यव्रतमाणिक्यवारिधिः । धर्मैकध्यानधन्यस्य, तस्य न्यासाय कल्पते ॥ ६०३|| इत्यालोच्य तमाकार्य, कार्या-ऽकार्यविवेककृत् । तं न्यासमर्पयामास, मेदिनीवासवो हयम् ||६०४|| अर्पितः स नरेन्द्रेण, समुद्रेणेव चन्द्रमाः । जगृहे जिनदासेन, नभसेव महीयसा ||६०५ || जिनदासोऽद्भुततमं तमङ्गीकृत्य वाजिनम् । निशान्तमाप तेजस्वी, निशान्तमिव भास्करः ||६०६ || तच्चारुचतुरङ्गाय, तुरङ्गाय व्यधाद् वणिग् । इन्दिरामन्दिरायास्मै, मन्दुरां मन्दिरान्तरे ||६०७|| श्वेतस्यास्य हयस्याधः, क्षिप्ता कोमलवालुका | प्राप्ता दीप्तिजितेवासौ, सेवार्थं चन्द्रगोलिका ||६०८|| समग्रभुवनव्यापिश्रीवशीकारकारणम् । श्रीजिनं वाजिनं वाऽयमेकं ध्यायति धीरधीः ||६०९ || यथा यथा हयो वृद्धिं, स प्रयाति तथा तथा । खुरैर्नृपविपद्वल्लिमूलानि खनति ध्रुवम् ॥६१०॥ सह स्वराज्यसम्पत्त्या, विपक्षविपदा समम् । सर्वाङ्गाणि तुरङ्गोऽयं, तुङ्गच्छविरवीवृधत् ॥६११॥ निनाय नीरपानाय, हयनायकमन्वहम् । स श्रेष्ठी स्वयमारुह्य, रक्षादक्षः सरोवरे ॥ ६१२ ॥ वलमानोऽन्तरा तीर्थनाथं वाहस्थितस्ततः । त्रिः स प्रदक्षिणीकृत्य, नत्वाऽभ्येति निकेतनम् ॥६१३॥ निजावास - जिनावास - जलावासपथत्रयम् । मुक्त्वा हयो न जानाति, मार्गमान्यं पुरान्तरे ॥ ६१४।। अथारिपृथिवीनाथाश्चेतस्येतदचिन्तयन् । कुतोऽस्य वर्धते राज्यमस्माकं क्षीयते पुनः ? ||६१५॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy