SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 10 अष्टमः सर्गः] [१८३ शिलाजतुनि स क्षिप्त्वा, मुखं सलिलकाङ्क्षया । उद्धर्तुमक्षमः पाणी, मूर्खः प्राणकृतेऽक्षिपत् ॥५६७।। तावत् तावपि तत्रैव, विलग्नौ वज्रलेपवत् । तदुद्धारधिया मूर्खः, पश्चात् पादौ न्ययुक्त तत् ॥५६८॥ लग्नौ तावपि तत् तत्र, सतृष्णस्य क्रमौ हरेः । तेन कीलितसर्वाङ्ग, इव मृत्युमवाप सः ॥५६९।। तदक्षिप्तपदः पूर्वमाकृषेद् वदनं स चेत् । अवश्यं तस्य तन्न स्याद् , दुर्मतेर्मृत्युरीदृशः ॥५७०।। भवादृशां वचस्तृष्णाप्रेरितोऽहमपि भ्रमात् । सजामि रागगैरेये, गौराङ्गि ! कपिवन्न हि ॥५७१।। नभःसेनाऽथ वक्ति स्म, व्यक्तं लोभेन भूयसा । नाथ ! यास्यसि निर्बुद्धिर्बुद्धिस्त्रीवोपहास्यताम् ॥५७२।। [बुद्धिस्त्रिया आख्यानकम्] ग्रामः सस्यश्रियां धाम, नन्द्रिग्राम इति श्रुतः । अस्ति विस्तीर्णकेदारसङ्कीर्णीभूतभूतलः ॥५७३॥ तत्र सिद्धिश्च बुद्धिश्च, प्रसिद्ध वृद्धयोषितौ । अभूतां स्फारदारिद्यमन्दिरे सख्यसोदरे ॥५७४।। ग्रामेऽत्र भोलिगो नाम, यक्षो विख्यातवैभवः । वित्तस्याभूत् प्रभूतस्य, दाता सेवाधने जने ॥५७५।। सिद्धिराराधयामास, ततस्तं भक्तिभासुरा । दीनारद्वितयं तुष्टो, ददौ तस्यै स चान्वहम् ॥५७६।। अभुक्त काष्ठपात्रे या, सा भुङ्क्ते हेमभाजने । दास्यं व्यधत्त याऽन्येषां, तस्या दास्योऽभवन् गृहे ॥५७७।। १. ५६९-७० श्लोकयुगलस्थाने-लग्नौ तावपि तत् तत्र, मृत्युमाप स दुर्मतिः । अप्रक्षिप्तपदः प्राणानाचकर्ष यदाननम् ॥ इत्येवंरूप एक एव श्लोकः पाता० पुस्तके वर्त्तते ॥ २. तत्रैव, सत खंता० ॥ ३. °दृशवच पाता० ॥ ४. °द्धिस्त्वं बुद्धिस्त्रीव हास्य खंता० पाता० ॥ ५. अभुङ्क्त खंता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy