SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः ] [ १७१ असत्यं हन्ति पादाधश्चारिणं यः क्षणाज्जनम् । यक्षस्य तस्य ते चैत्ये, जग्मुर्दुर्गिलया समम् ॥ ४१५।। स्नात्वा पवित्रगात्रा सा, यावच्चैत्याय गच्छति । तावद् ग्रहिलतादम्भाज्जारेणाऽऽ लिङ्गिताऽग्रतः ॥ ४१६॥ धिग् ! धिग् ! मा मा स्पृश त्वं मां वदन्तीत्यथ दुर्गिला । तस्माद् विमोचिता पार्श्ववर्तिभिः स्नपिता पुनः || ४१७॥ अथ चैत्यान्तरे गत्वा, यक्षं सम्पूज्य च स्वयम् । सा भालकुड्मलीभूतपाणिपद्मा व्यजिज्ञपत् ॥ ४१८॥ मुक्त्वा करग्रहीतारं, ग्रहिलं च नरो यदि । कोऽपि लग्नो मदङ्गे तद्, देव ! कार्याऽस्मि भस्मसात् ॥४१९ ॥ इत्युदीर्य तदा यक्षे, संशयारूढचेतसि । अधश्चरणयोरेषा, निःससार धियांनिधिः ॥४२०॥ शुद्धाशुद्धेति वाचस्तत्, तालास्फालनगर्भिताः I उल्लासिता जनशतै, रुरुधुर्गगनाङ्गणम् ॥४२१॥ स्वयंदृष्टान्यपार्श्वस्थस्नुषासंशुद्धिचिन्तया । तदादि देवदत्तस्य, निद्रा नायादहर्निशम् ॥४२२॥ दिनैः कतिपयैर्मत्वा, विनिद्रं तं पुराधिपः । निजस्यान्तःपुरस्यान्तश्चकार किल यामिकम् ॥४२३॥ सुप्तो जागर्ति वा सोऽयमित्युत्थाय मुहुर्मुहुः । रोज्ञीमेकां स पश्यन्तीं, ज्ञात्वा सुप्तोऽथ कैतवात् ॥४२४॥ सत्यसुप्तमिमं ज्ञात्वा, राज्ञी जालकनिर्गता । अधस्ताद्धस्तिना निन्ये, भूतलं तलवर्तिना ॥४२५॥ अथ हस्तिपकेनासौ, कुपितेन चिरागता । हस्तिहिञ्जीरघातेन, निजघ्ने जघने घनम् ॥४२६॥ जाग्रद्यामिकवृत्तान्तकथनेन प्रसेदुषा । तेन सा ध्वस्तकोपेन, समं चिक्रीड निर्भरम् ॥४२७|| १. 'यैर्ज्ञात्वा खंता० ॥ २. किं मां पश्यति राज्ञीति, ध्यात्वा सुप्तः स कै पाता० ॥ ३. सुप्तः स कै° खंता० ॥ ४ ° प्तममुं ज्ञा' खंता० ॥ ५. °स्तिहञ्जी' पाता० ॥ D:\maha-k.pm5\ 2nd proof 5 10 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy