SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः ] इमां चे शान्तसन्तापां, दत्तप्रस्तुतवस्तुतः । चकार कारणं सिद्धेः, स्मरस्मरणदुर्मदः ॥ ३९०॥ अथ मन्मथदीपेन, प्रकाशितपथो निशि । स्मरार्तो देवदत्तस्य तस्य धाम जगाम सः ॥ ३९१॥ पाश्चात्यवर्त्मना कामविवशः प्रविशन्नसौ । ददर्श दुर्गिलामग्ने, साऽपि तं स्निग्धया दृशा ॥३९२॥ समाप्य गृहकृत्यानि, पत्यौ निद्रावशंवदे । ययावुपपतिं हृष्टा, सा गृहोपवनावनौ ॥३९३॥ अनारतरतश्रान्ता, सह तेन हताशया । सा स्वापमाप तत्रैव, समं भर्त्रेव निर्भरम् ||३९४|| तदानीं कायचिन्तार्थमुत्थायोपवनं गतः । देवदत्तः स्नुषां तत्र, तदवस्थां व्यलोकयत् ॥ ३९५॥ ४ विपश्चिन्निश्चयायाथ, सुतवासगृहं गतः । एकाकिनं सुतं वीक्ष्य, प्राप्तस्तत्र वने पुनः ॥ ३९६॥ रुषा स्नुषापदाम्भोजादभिज्ञानकृते कृती । मन्दं मन्दं स्वहस्तेन, मञ्जीरमुदतीतरत् ॥३९७॥ क्रमादुत्तार्यमाणे सा, नूपुरे जातजागरा । गुरुमालोकयामास, यान्तं कलितनूपुरम् ॥३९८॥ ससम्भ्रममथोत्थाय, कृपणा प्राणवल्लभम् । नूपुरोत्तरवृत्तान्तं, सनिर्वेदं न्यवेदयत् ॥३९९॥ क्रियमाणे प्रिय ! प्रातर्दिव्ये साहायकं त्वया । किञ्चिन्मम विधातव्यं, सेत्युक्त्वा विससर्ज तम् ||४००|| वहन्नत्यद्भुतं भीतिभारं सोऽपि युवा जवात् । पथा यतागतेनाधोवदनः सदनं ययौ || ४०१ ॥ १. च सान्तःसन्ता° खंता० ॥ २. 'हकर्माणि, पत्यौ खंता० ॥ ३. हानेन पाता० ॥ ४. निश्चिकायाथ वता० ॥ [ १६९ D:\maha-k.pm5 \ 2nd proof 5 10 111 15 20
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy